जह गहिआ तह हिअअं हरंति उच्छण्णमहिलाओ॥ ९५॥
(कुपिताः प्रसन्ना अवरुदितमुख्यो विहसन्त्यः।
यथा गुहीतास्तथा हृदयं हरन्ति उत्सन्नमहिलाः॥)
वयं तथा नाम यथात्थ किं वदाम्ययं त्वकस्माद्विकलः कथान्तरे।
कदम्बगोलाकृतिमाश्रितः कथं विशुद्धमुग्धः कुलकन्यकाजनः॥ ९६॥
एतेष्वम्लानमानशब्देन मानभङ्गः, उत्सन्नशब्देनानुच्छेदाशीः, विशुद्धमुग्धशब्देनाविशुद्धिरमौग्ध्यं च लक्ष्यते।
५. यत्राभिहितशब्दार्थतिरस्कारेणार्थान्तरं लक्ष्यते सा तदन्यलक्षणा। यथा—
सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः।