'मनसिजजैत्ररथं विलोचनार्धं॥ ९२॥
'चकितहरिणीहानिरनेत्रत्रिभागः'॥ ९३॥
अत्र नार्धशब्दस्य त्रिभागशब्दस्य अर्थः, किन्तु ताभ्यामसमग्रालोकनं लक्ष्यते। न हि भवति नेत्रचतुर्भागो नेत्रषड्भागो वेति।
४. पदं केवलमन्यसन्निधेर्वा यत्राभिहितविरूद्धं लक्षितमेवार्थं लक्षयति सा विरूद्धलक्षणा। यथा—
'विष्टिर्भद्रा', 'अङ्गारको मङ्गलः', 'पुण्यवत्यहं यस्यास्त्वमेवंविधः पतिरसि' इति। अत्र भद्रामङ्गलशब्दौ पुण्यवच्छब्दश्च अभद्रमङ्गलत्वे अपुण्यवत्त्वं च लक्षितमेव लक्षयन्ति। यथा वा रत्नावल्यां राजा विदूषकमाह — 'महाब्राह्मणस्त्वमसि, कोऽन्य एवमृचामभिज्ञ (रत्ना. २.६)' इति। अत्र महाब्राह्मण इत्यनेन ऋचामभिज्ञ इत्यनेन च वृषलादप्यधमत्वं वैधेयत्वं च लक्ष्यते। यथा च मालतीमाधवे लवङ्गिका मदयन्तिकामभिधत्ते— 'कहं णाम णवबहूवीसंभेणोवाअजाणअं लडहविअड्डमहुरभासणं अरोसणं भादरं दे भत्तारं समासादिअ पिअसही (ण) दुम्मणइस्सदि' (कथं नाम नववधूविस्त्रम्भणोपायाभिज्ञं लडहविदग्धमधुरभाषणमरोषणं भ्रातरं ते भर्तारं समासाद्य प्रियसखी न दुर्मनायिष्यते।) (मामा.७.०/१) अत्र नववधूविस्त्रम्भणोपायज्ञत्वादयस्तद्विरूद्धमर्थं लक्षयन्ति। एवमन्येऽपि यथा— (काव्याद. २.२८९)
इदमम्लानमानाया लग्न स्तनतटे तव।
छाद्यतामुत्तरीयेण नवं नखपदं सखि॥ ९४॥
कुविआओ पसण्णाओ ओरूण्णमुहीओ विहसमाणीओ।