भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 371 to 380 of 1087 verses
'मनसिजजैत्ररथं विलोचनार्धं॥ ९२॥

(किराता.१०.५२)

'चकितहरिणीहानिरनेत्रत्रिभागः'॥ ९३॥

(?) इति।

अत्र नार्धशब्दस्य त्रिभागशब्दस्य अर्थः, किन्तु ताभ्यामसमग्रालोकनं लक्ष्यते। न हि भवति नेत्रचतुर्भागो नेत्रषड्‍भागो वेति।

४. पदं केवलमन्यसन्निधेर्वा यत्राभिहितविरूद्धं लक्षितमेवार्थं लक्षयति सा विरूद्धलक्षणा। यथा—

'विष्‍टिर्भद्रा', 'अङ्गारको मङ्गलः', 'पुण्यवत्यहं यस्यास्त्वमेवंविधः पतिरसि' इति। अत्र भद्रामङ्गलशब्दौ पुण्यवच्छब्दश्च अभद्रमङ्गलत्वे अपुण्यवत्त्वं च लक्षितमेव लक्षयन्ति। यथा वा रत्‍नावल्यां राजा विदूषकमाह — 'महाब्राह्मणस्त्वमसि, कोऽन्य एवमृचामभिज्ञ (रत्‍ना. २.६)' इति। अत्र महाब्राह्मण इत्यनेन ऋचामभिज्ञ इत्यनेन च वृषलादप्यधमत्वं वैधेयत्वं च लक्ष्यते। यथा च मालतीमाधवे लवङ्गिका मदयन्तिकामभिधत्ते— 'कहं णाम णवबहूवीसंभेणोवाअजाणअं लडहविअड्डमहुरभासणं अरोसणं भादरं दे भत्तारं समासादिअ पिअसही (ण) दुम्मणइस्सदि' (कथं नाम नववधूविस्त्रम्भणोपायाभिज्ञं लडहविदग्धमधुरभाषणमरोषणं भ्रातरं ते भर्तारं समासाद्य प्रियसखी न दुर्मनायिष्यते।) (मामा.७.०/१) अत्र नववधूविस्त्रम्भणोपायज्ञत्वादयस्तद्विरूद्धमर्थं लक्षयन्ति। एवमन्येऽपि यथा— (काव्याद. २.२८९)

इदमम्लानमानाया लग्‍न स्तनतटे तव।

छाद्यतामुत्तरीयेण नवं नखपदं सखि॥ ९४॥

कुविआओ पसण्णाओ ओरूण्णमुहीओ विहसमाणीओ।

Showing 371 to 380 of 1087 verses