भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 391 to 400 of 1087 verses
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम्॥ ९७॥

(महाभारत ५.३५.६४)

अत्र न सुवर्णशब्दार्थो, नापि पुष्पशब्दार्थः; किन्तु सुवर्णशब्देन सर्वपुरुषार्थमूलं हिरण्यं, पुष्पशब्देन च प्रसवार्थो लक्ष्यते। ताभ्यां च लाक्षिताभ्यां व्यवसायिनां पुरुषविशेषाणां वसुमती सर्वान् कामान् प्रसूत इति।

६. उक्ताभ्योऽन्या प्रकीर्णलक्षणा। यथा— (रघु. ८.२९)

दशरश्मिशतोपमद्युतिं यशसा दिक्षु दशस्वपि श्रुतम्।

दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्बुधाः॥ ९८॥

हिरण्यपूर्वं कशिपुं प्रचक्षते।

(माघ. १. ४२) तुरङ्गकान्तामुखहव्यवाहज्वालेव हित्वा जलमुल्ललास॥ ९९॥

(माघ. ३.३३) इति।

अन्ये पुनर्लक्षितलक्षणामन्यथा व्याचक्षते— लक्षणयोपचरितवृत्त्या गौण्या अर्थेन यत्रार्थान्तरं लक्ष्यते सा लक्षितलक्षणेति। यथा— रथावयवायुधः, पङ्‌क्तिरथः (रघु. ९.७४), रथाङ्गनामेति (रघु. ३.२४); अत्र रथावयवशब्देन चक्रं लक्ष्यते, तेन तदाकृतिः तन्नामा आयुधविशेषः; पङ्‌क्तिरित्यनेन दशाक्षरं छन्दो लक्ष्यते, तेन दशशब्दः, ताभ्यां चायुधसन्निधेश्चक्रायुधः, दशरथः इति देवविशेषराजविशेषौ लक्ष्येते। रथाङ्गमित्यनेन रथैकदेशो लक्ष्यते, तेन चक्रशब्दः, नामेत्यनेन परिभाषणं लक्ष्यार्थः; ताभ्यामन्योन्यसन्निधेश्चक्रवाक इति पक्षिविशेषो लक्ष्यत इति। अस्याश्च प्रबन्धेषु भूयसा प्रयोगः। तद्यथा— (गास. ६१)

Showing 391 to 400 of 1087 verses