उच्यते 'यजेत स्वर्गकाम' इत्यादौ विधिर्भावनायां पुरुषं प्रवर्तयति। भाव्यनिष्ठस्वभावको व्यापारो भावना। सा च साध्यादिस्वरूपरित्यक्ता निरुपपत्तिकैव स्यात्। साध्यत्वं च समानपदोपादानसन्निधिवशाद् धात्वर्थस्याहोस्विदिष्यमाणतया कामिपदोपात्तस्य स्वर्गादेः स्यादिति संशये योग्यत्वात् स्वर्गस्यैव, न धात्वर्थस्येति। तदुक्तम्— (श्लोकवा. ५.१४—१५)
विधावनाश्रिते साध्यः पुरुषार्थो न लभ्यते।
श्रुतस्वर्गादिबाधेन धात्वर्थः साध्यतां व्रजेत्॥ ६६॥
विधौ कृतमतिक्रम्य स्वर्गादेः साध्यतेष्यते।
तत्साधनस्य धर्मत्वमेवं सति च गम्यते॥ ६७॥
धर्मे ह्यदृष्टविषये चोदनैव प्रमाणम्। चोदनैव हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं वाऽर्थमवगमयितुं शक्नोति, नान्यत् किंचनेन्द्रियमिति (शाभा. १.१.२) एतेनापौरुषेयत्वेन यथार्थप्रतिपादकाप्तप्रणीतत्वेन वा निरस्तदोषांशस्य बाधकप्रत्यय— रहितस्य वैदिकस्य लौकिकस्य च वाक्यस्यौत्सर्गिकं प्रामाण्यमुक्तं भवतीति विधिर्वाक्यार्थ इति।
स्वं स्वमर्थमभिधायोपरतेषु पदेषु पदार्थप्रतिपत्त्यनन्तरमुपजायमाना इदं तदिति अव्यपदेश्यानुपदेशसिद्धा हिताहितप्राप्तिपरिहारहेतुः प्रवृत्त्यनुकूला बुद्धिः प्रतिभा।
तथा हि— पदनिबन्धनानां पदावयवनिबन्धनानां च अर्थप्रत्यवभासमात्राणां विच्छेदेन प्रवृत्तौ पदार्थैः क्रमेण गृह्यमाणैराहितसंस्कारासु बुद्धिषु सर्वार्थप्रत्यवभास— संसर्गानुगृहीता प्रत्यस्तमितभेदप्रत्यवभासा प्रवृत्तिफलप्रसवानुमेयाभिन्नजातीयैव प्रतिभा प्रत्यात्मं विवर्तते। यथा मन्दविषरसादिषु भिन्नानां द्रव्याणां पूर्वमदृष्टांशसंसर्गात् प्राप्तपरिपाकानां मदमरणसुवर्णादिरर्थक्रिया दृश्यते, तथा प्रतिपदं भिन्नानां शब्दानामुच्चारणेष्वदृष्टा, पुनः क्रमेणाविच्छिन्नानामुच्चारणे तासु तासु इतिकर्तव्यतास्वनुकूला प्राणिनां प्रतिभोपजायमाना दृश्यते। अयं च अस्या भावनादिभ्यो विशेषः। यावत् किमत्र मया कथितं प्रतिपन्नमर्थरूपं वा परेण कथमनुसन्धीयत इति न विचार्यते, तावदनाख्येयेन उपायेन पूर्वोत्तरानुसन्धानमेषां प्रकल्पयति। प्रत्यक्षानुमानविषयेऽपि यावत् पूर्वापरप्रत्यवमर्शः शब्दोल्लेखवान् प्रतिभया न क्रियते, तावत् प्रत्यक्षमनुमानं वा स्वकार्यं न प्रसाधयति। प्रतिभोपगृहीतानि सर्वप्रमाणानि प्रमाणतां लभन्ते।
प्रतिभालोचनो हि लोक इतिकर्तव्यतासु प्रवर्तते॥ ६८॥