ननु च न प्रतिभा वाक्यार्थः, यतो बालानां स्तन्यपानादिषु, हंसानां क्षीरनीरविवेचने, जन्त्वादीनां कुलायादिकरणे, जातमात्राणामेव पशुमृगसरीसृपा— दीनामुदकसन्तरणे, सुप्तानां च प्रबोधादौ, कुमार्याश्च श्वो मे भ्राता आगमिष्यतीति ज्ञाने स्वभावतो वाक्यश्रवणमन्तरेणापि प्रतिभोपजायमाना दृश्यते। तथा कालविशेषात् पुंस्कोकिलानां स्वरविकारे, अभ्यासविशेषात् रत्नादि परीक्षकाणां तद्दोषगुणज्ञाने, अदृष्टाद् रक्षःपितृपिशाचादीनां परावेशान्तर्धानादौ, योगाद् योगिनां पराभिप्रायावगतौ, बाह्येन्द्रियवृत्तिनिरोधाद् वसिष्ठादीनामतीन्द्रियज्ञाने, कृष्णद्वैपायनाद्यनुध्यानात् सञ्जयादीनां दूरदर्शनश्रवणादौ, कारणान्तरेभ्योऽपि प्रातिभमुपलभ्यते।
उच्यते— यथैव साक्षात् पुरुषोपदिष्टवाक्यादर्थक्रियासु शब्दव्यापारेणोपसंहृता प्रतिपत्तॄणां प्रतिभा विवर्तते, तथैव बालादीनां स्तन्यपानादिषु पूर्वशब्दभावनानुगमाद् वाक्यार्थप्रतिपत्तृभिरविशिष्टैव प्रतिभोपजायते। येषामपि च अप्रसिद्धशब्दनिबन्धनो व्यवहारः, तेऽपि हस्त्यश्वादयोऽपि जन्मान्तरीयशब्दभावनावशात् प्रत्युत्पन्नशब्दप्रत्ययाः प्रतिभामनुगच्छन्तः सर्वमारभन्ते। पूर्वशब्दभावनानुगमाच्च स्वबीजानामाभिमुख्येऽपि प्रकृष्टशब्दव्यापारे कोकिलादीनां स्वरविकारादौ प्रतिभोपजायते। पूर्वजन्मजनित— शब्दश्रवणसंस्कारोद्बोधकानि त्वन्यानि कालाभ्यासादृष्टयोगध्यानानुध्यानादीनि साधनानि (वाप. २.१५२)। इयांस्तु विशेषः — 'क्वचित् वाक्यमुच्चरितमात्रमेव तमव्यपदेश्यमसत्त्वभूतं प्रतिभापदाभिधेयं स्वार्थं प्रकाशयति। क्वचित्तु चिरव्यवहितमपि विशिष्टप्रतिभाबीजभावनानिवेशान्नमित्तान्तरसान्निध्ये तदेव वाक्यं परम्पर्येण प्रतिभाख्यं स्वार्थमाविर्भावयतीति प्रतिभा वाक्यार्थ इति॥
(क्रियायाः पदार्थत्वं भावनायाश्चापदार्थत्वम्)
ननु च क्रियापि नाम वाक्यार्थो विद्यते, सोऽपि वक्तव्यो भवति।
नैवम्। पदार्थः क्रिया, न वाक्यार्थः। पदार्थानां तु मिथाः संसर्गे यदाधिक्यमुपजायते स वाक्यार्थः। तदाह—(मभा. २.३.४६) 'यदत्राधिक्यं वाक्यार्थः स' इति। स कदाचित् पुरुषव्यापाररूपो भावनेति, कदाचित् शब्दव्यापाररूपो विधिरिति, कदाचिद् बुद्धिव्यापाररूपः प्रतिभेति।
ननु च भावनापि पदार्थ एव धातोर्वा प्रत्ययाद् वा गम्यमाना पदार्थत्वं न व्यभिचरति।
अथैवमुच्यते — न पदार्थमात्रं भावना, अपि तु परिदृश्यमानपूर्वापरीभूत— विध्यादिभावार्थस्वरूपातिरिक्तः पुरुषव्यापारः, सोऽपि 'धातुवाच्यत्वे प्रत्ययवाच्यत्वे वा न पदार्थत्वमतिक्रामति' (न्यायमं.)।
उच्यते— 'यजेत' इत्यादौ प्रकृत्यर्थः क्रियारूपो यागादिः, प्रत्ययार्थः प्रेरणारूपो विध्यादिः, न चैतदतिरिक्तो भावनाख्यः कश्चिदपि पुरुषव्यापारो दृश्यते। न च भावनावाचिनीं काञ्चिदपि विभाक्ति लिङादिमिव विध्यादौ स्मरति पाणिनिः। मैवम्—
आस्तां विधिपदं तावद् वर्तमानापदेशिनः।
शब्दाद् यजन इत्यादेर्भावना सावगम्यते॥ ६९॥