भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 421 to 430 of 595 verses
१. रञ्जकाभावे = रञ्जकाद्युपजनाभावे राघवः। २. कर्तृव्यापारो प्रत्ययार्थं इति राघवः। तदुपरक्तत्वेन सर्वदोपलम्भात्। न चैतावतासौ नास्ति, नास्तितायां हि तस्याः किं करोतीति अनवगतविशेष्य(ष)व्यापारप्रश्‍ने पचति पठतीत्युत्तरमनुत्तरमेव भवति। किंच—

औदासीन्यदशायां तु पुमान् येन प्रवर्तते।

स यत्‍नो यागहोमादौ भावनेत्यभिधीयते॥ ७१॥

सा च सामान्यरूपापि न गोत्वादिवत् क्रियात्ववद् वा सिद्धतयावभासते, येन विधेया न भवति। यद्येवम्—

क्रियाविशेष एवासौ व्यापारो व्यापारो ज्ञातुरान्तरः।

स्पन्दात्मकबहिर्भूतक्रियाक्षणविलक्षणः॥ ७२॥

(न्यायमं)

क्रियायाश्‍च पदार्थत्वमिष्यत एव। ननु च पदार्थत्वेऽपि क्रियाया वाक्यार्थत्वमेव न्याय्यम्।

यतः पदार्था वाक्यार्थभावमायान्ति संहताः।

अपेक्षानुगुणान्योन्यव्यतिषङ्गविशेषिताः॥ ७३॥

Showing 421 to 430 of 595 verses