भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 421 to 430 of 1087 verses
अत्र मत्तनिरहङ्काशब्दावनिभृतत्वं निभृतत्वं च लक्षयन्तौ चेतनेषु रूढावचेतनेषु प्रयुज्यमानौ तयोरपि तथाविधार्थयोगं लक्षयतः। किंच— (गास.(वे) ९६९)

अण्णं लडहत्तणअं अण्णा च्चिअ अंगवढ्ढणच्छाआ।

सामा सामण्णवआवइस्स रेह च्चिअ ण होइ॥ १०४॥

(अन्यल्लडहत्वमन्यैव अङ्गवर्त्तनच्छाया।

श्यामा सामान्यप्रजापते रेखैव न भवति॥

अत्र रेखाशब्देन चित्रालेख्यं लक्ष्यते, तेन च विशिष्‍टं रूपनिर्माणमिति। अपरम्—

अगणिअणअणाआसं मारिसलोइज्जंत गतं को होसि मअणस्स(?)॥ १०४॥

(अगणितनयनानासं मारिष लोक्यमान त्वं को भवसि मदनस्य।)

अत्र मदनस्य (को) भवसीत्यनेन तत्सनाभित्वं लक्ष्यते, तेन च तदौपम्यमिति। तथा—

१. ध्वन्यालोके तूत्तरार्धपाठ ईदृशः — 'विरमिअ पुणो रमिज्जइ पिए जणे णत्थि'।

Showing 421 to 430 of 1087 verses