भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 441 to 450 of 1087 verses
यत् तालीदलपाकपाण्डु वदनं यद् दुर्दिनं नेत्रयो— र्यच्चानर्तितकेलिपङ्कजदलं श्वासाः प्रसर्पन्ति च। १०९।

अत्र दुर्दिनं नेत्रयोरित्यत्र दुर्दिनशब्दः वृष्‍टिमेघाहतशोभेऽह्नि रूढाभिधानशक्ति— र्नेत्रयोरसम्भाव्यमानत्वेन स्वार्थाविनाभूतं पयःप्रवाहं लक्षयन्नश्रुप्रवाहं लक्षयति।

अन्यच्च— (महाभारत १.११९.६)

अतिक्रान्तसुखाः काल प्रत्युपस्थितदारुणाः।

शश्वत् पापीयदिवसाः पृथिवी गतयौवना॥ ११०॥

अत्रातिक्रान्तसुखत्वादि चेतनधर्मैरचेतनेषु कालादिष्वारोपितैरतेषु तदसम्भवेन

तदविनाभूतास्तद्गता; प्राण्यादयो लक्ष्यन्ते। तेन वक्‍तृनिर्वेद इति।

अपरं च—

'इदमन्धं तमः कृत्स्नं जायेत भुवनत्रयम्॥ १११॥'

(काव्यद. १.४)

Showing 441 to 450 of 1087 verses