वेदाद् गुरुनियोगाद्वा शासनाद्वा महीभुजः।
न सचेताः क्रियां कांचिदनुतिष्ठति निष्फलाम्॥ ७७॥
अथोच्यते 'शब्दप्रमाणका वयं यच्छब्द आह तदस्माकं प्रमाणम् (मभा.पस्प.)। तर्हि स्वर्गकामपदमपि शब्द एव, तस्याप्यत्रान्वयो वक्तव्यः (न्यायमं.)।
ननु च कर्तृपदमेकं कर्ता च क्रियार्थ इति।
नैवम्। न कर्तृपदं स्वर्गकाम इति, अपि त्वधिकारिपदम्। स्वर्गे कामोऽस्य स्वर्गं वा कामयते, स्वर्गकामनाविशिष्टः पुरुषोऽस्मात्पदादवगम्यते। तदत्र काम्यमानः स्वर्गः कथं योगक्रियया सम्बध्यते ? स्वर्गस्य निरतिशयप्रीतिरूपत्वात्, न प्रीतिरद्रव्यत्वात् क्रियाङ्गभावं भजते। न च प्रीतेः क्रियार्थत्वमुपपद्यते। प्रीत्यर्थमन्यद्, नान्यार्था प्रीतिरिति। एवं च क्रियासाधनानुपदेशात् न कर्तृसमर्पकत्वेन स्वर्गकामपदसमन्वयः, अपि त्वधिकारिसमर्पकत्वेन।
कर्मणः स्वामी। ननु च कर्तैव कर्मणः स्वामी।
नैवम्, स्वामी सन् कर्ता, न कर्ता सन् स्वामी।