भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 441 to 450 of 595 verses
(भा.वि.)

वेदाद् गुरुनियोगाद्वा शासनाद्वा महीभुजः।

न सचेताः क्रियां कांचिदनुतिष्‍ठति निष्फलाम्॥ ७७॥

(न्यायमं.)

अथोच्यते 'शब्दप्रमाणका वयं यच्छब्द आह तदस्माकं प्रमाणम् (मभा.पस्प.)। तर्हि स्वर्गकामपदमपि शब्द एव, तस्याप्यत्रान्वयो वक्तव्यः (न्यायमं.)।

ननु च कर्तृपदमेकं कर्ता च क्रियार्थ इति।

नैवम्। न कर्तृपदं स्वर्गकाम इति, अपि त्वधिकारिपदम्। स्वर्गे कामोऽस्य स्वर्गं वा कामयते, स्वर्गकामनाविशिष्‍टः पुरुषोऽस्मात्पदादवगम्यते। तदत्र काम्यमानः स्वर्गः कथं योगक्रियया सम्बध्यते ? स्वर्गस्य निरतिशयप्रीतिरूपत्वात्, न प्रीतिरद्रव्यत्वात् क्रियाङ्गभावं भजते। न च प्रीतेः क्रियार्थत्वमुपपद्यते। प्रीत्यर्थमन्यद्, नान्यार्था प्रीतिरिति। एवं च क्रियासाधनानुपदेशात् न कर्तृसमर्पकत्वेन स्वर्गकामपदसमन्वयः, अपि त्वधिकारिसमर्पकत्वेन।

अथ कोऽयमधिकारी नाम?

कर्मणः स्वामी। ननु च कर्तैव कर्मणः स्वामी।

नैवम्, स्वामी सन् कर्ता, न कर्ता सन् स्वामी।

Showing 441 to 450 of 595 verses