ननु क्रियाकारकसंबन्धव्यतिरेकेण कोऽन्यः कर्मणः पुरुषस्य च सम्बन्धः?
उच्यते— ममेदं कृत्यम् अहमत्र स्वामीति स्वस्वामिभावमशक्यम् (अवगत्य) पाश्चात्त्यक्रियाकारकसम्बन्धो गम्यते।
पाश्चात्त्य इत्यत्र किं प्रमाणमिति चेत् अनुपादेयविशेषणविशिष्टस्य पुंसो निर्देशस्तस्मादधिकृतस्य कर्तृत्वं, कर्तुरधिकार इति। इत्थं च स्वर्गकामस्याधिकारो निर्वहति। यदि तत्कर्म स्वर्गकामं स्यात् स्वर्गोऽपि भोग्यो भवेत्। कथमहं स्वर्गं प्राप्नुयामित्येवं साध्यत्वेन स्वर्गमिच्छन् स्वर्गकाम उच्यते। यदि च न स्वर्गसाधनं कर्म स्यात् तद्विरुद्धमिदमापतति स्वर्गं कामयते यागं करोति, अन्यदिच्छत्यन्यत्करोतीति। अतः कर्मणि काम्यमाने साधनताम् (अ)प्रतिपद्यमानः स्वर्गकामस्तत्र नैवाधिक्रियते। न चानधिक्रियमाणस्तत्र सम्बध्यते। तदेवमधिकृतत्वेन स्वर्गकामस्य कर्मणि सम्बन्धात् स्वर्गयागयोश्च साध्यसाधनभावावगममन्तरेणाधिकास्यानिर्वाहाद् अवश्यं क्रियायां साधनत्वं स्वर्गस्य च साध्यतवमभ्युपगन्तव्यम्। अतश्च क्रियायाः फलं प्रति गुणभावादप्राधान्यम्, अप्राधान्याच्च न वाक्यार्थत्वम्। तदुक्तम् "कर्माण्यपि हि जैमिनिः फलार्थत्वाद्" इति। का चेयं क्रिया? वाक्यार्थ इत्युच्यते य एष यागादिर्भावार्थो धातुवाच्यः, उत प्रत्ययार्थः, कश्चिदतिरिक्त इति। तत्र भावार्थस्य काम्यमानसाधनत्वादप्राधान्यमुक्तमेव। प्रत्ययार्थस्तु काम्यमानभावार्थगतसाध्यसाधन— सम्बन्धापरित्यागेनैव वाक्यार्थतां प्रतिपद्यते। तस्मान्न क्रियामात्रपर्यवसायी वाक्यार्थ इति।
किमिदानीं फलस्यैव वाक्यार्थत्वं प्रचक्ष्महे।
तद्धि प्रधानं साध्यं च तदर्थो ह्यखिलः श्रमः॥ ७८॥
नैवम्; यथा क्रियायाः फलार्थत्वादप्राधान्यम् एवं फलस्यापि पुरुषार्थत्वात्। न हि स्वर्गः स्वतन्त्र एव सत्तां लभतामिति पुरुषो यतते, अपि तु स्वोपभोग्यतयैनमभिलषति। तदाह — "फलं च पुरुषार्थत्वात्" (मीसू. ३.१.५)।
तर्हि पुरुष एव वाक्यार्थो भवतु।
नैवम्; 'यजमानेन संमितौदुम्बरी भवति' इति तस्यापि क्रियाङ्गत्वात्। तदाह 'पुरुषश्च कर्मार्थत्वात्' इति (मीसू. ३.१.६)। हन्तैवं क्रिया फलार्था, फलं पुरुषार्थं, पुरुषः क्रियार्थ' इति चक्रके पतिताः कस्य प्राधान्यं शिष्मः?
उच्यते— पुरुषस्तावन्न वाक्यार्थः, पदार्थानां मिथः संसर्गेऽपि अव्ययकारक— विशेषणार्थोपगृहीतस्याख्यातार्थस्यैव प्राधान्येन वाक्यार्थत्वात्।
ननु चाख्यातेऽपि यजेतेत्येवमादौ कर्तर्येव लकारः?