'निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते॥ ११२॥'
अत्र यथा अन्धे रूपविशेषाभिव्यक्तिर्न सम्भाव्यते एवं तमस्यपि; यत्र नीरन्ध्रे रूपविशेषाभिव्यक्तेरसम्भवस्तदन्धं तम इत्युच्यते; तथा यथान्धो रूपग्रहणासमर्थः, एवम् आदर्शोऽपि। यो रूपग्रहणासमर्थः सोऽन्ध इत्युच्यते; तत्रोपचरितवृत्तौ योऽन्धवन्न पश्यति स एवान्ध इत्युच्यते। इह यत्र किंचिन्न दृश्यते तत्रापि अन्धशब्दो लक्षितलक्षणया प्रवर्तत इति।
'स्वल्पैरसावपि न दह्यत एव काष्ठैः॥ ११३॥'
'वअस्स तुमं पि थेवचंदणरसेण समससिज्जसि॥ ११४॥'
(वयस्य त्वमपि स्तोकचन्दनरसेन समाश्वसिहि।)
अत्र पूर्वस्मिन् यथाश्रुतार्थो वर्णनीयेऽसम्भवन् यथा विक्रमादित्यस्तथायमापि महापुरुषविशेष इति लक्षयति। तेन च स्वल्पैर्वचोभिरनाख्येयं माहात्म्यादिगुण— गोरवमुभयोरपि लक्षयति। उत्तरत्र तु स एवार्थो विरुद्धलक्षणया वैपरीत्येनाख्यायत इत्येवमयमनन्तो लक्षितलक्षणाव्यापारः प्रबन्धेषु लक्षणीयः। यथा— (द्र. स.क. पृ. १८५)
एक्किंहिं अच्छिहिं सावणु अण्णहिं भद्दवउ।
माहउ महिअलमत्थरि गंडत्थल सरउ॥ ११४॥