भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 451 to 460 of 1087 verses
'निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते॥ ११२॥'

(रामा. ३.१६.१३)

अत्र यथा अन्धे रूपविशेषाभिव्यक्तिर्न सम्भाव्यते एवं तमस्यपि; यत्र नीरन्ध्रे रूपविशेषाभिव्यक्तेरसम्भवस्तदन्धं तम इत्युच्यते; तथा यथान्धो रूपग्रहणासमर्थः, एवम् आदर्शोऽपि। यो रूपग्रहणासमर्थः सोऽन्ध इत्युच्यते; तत्रोपचरितवृत्तौ योऽन्धवन्न पश्यति स एवान्ध इत्युच्यते। इह यत्र किंचिन्न दृश्यते तत्रापि अन्धशब्दो लक्षितलक्षणया प्रवर्तत इति।

एवमन्यदपि यथा—

'स्वल्पैरसावपि न दह्यत एव काष्‍ठैः॥ ११३॥'

'वअस्स तुमं पि थेवचंदणरसेण समससिज्जसि॥ ११४॥'

(वयस्य त्वमपि स्तोकचन्दनरसेन समाश्‍वसिहि।)

अत्र पूर्वस्मिन् यथाश्रुतार्थो वर्णनीयेऽसम्भवन् यथा विक्रमादित्यस्तथायमापि महापुरुषविशेष इति लक्षयति। तेन च स्वल्पैर्वचोभिरनाख्येयं माहात्म्यादिगुण— गोरवमुभयोरपि लक्षयति। उत्तरत्र तु स एवार्थो विरुद्धलक्षणया वैपरीत्येनाख्यायत इत्येवमयमनन्तो लक्षितलक्षणाव्यापारः प्रबन्धेषु लक्षणीयः। यथा— (द्र. स.क. पृ. १८५)

एक्किंहिं अच्छिहिं सावणु अण्णहिं भद्दवउ।

माहउ महिअलमत्थरि गंडत्थल सरउ॥ ११४॥

Showing 451 to 460 of 1087 verses