भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 451 to 460 of 746 verses
(अभिहितान्वयवादः)

अभिहितान्वयवादिनः पुनरित्थमाचक्षते —'स्वं स्वमर्थमभिधाय निवृत्तव्यापाराणि पदानि भवन्ति। अथेदानीं पदार्था अवगता आकाङ्क्षासन्निधियोग्यताभिरन्वयमुपयन्तो वाक्यार्थमवगमयन्ति।

नन्वेवमशाब्दः स्यात् ?

नैवम्; पारम्पर्येणापि प्रतिपादयतां पदानां वाक्यार्थे सामर्थ्यस्याविघातात्। तदुद्देशेन च प्रयुक्तानां पदार्थप्रतिपादनमवान्तरव्यापारो भविष्यति। न चावान्तरव्यापारस्य कारकान्तरेष्वपि व्यवधायकत्वमिष्यते। तदाह—

न विमुञ्चन्ति सामर्थ्यं वाक्यार्थेऽपि पदानि नः।

तन्मात्रावसितेष्वेषु पदार्थेभ्यः स गम्यते॥ ८३॥

(श्लोकवा.)

वाक्यार्थमितये तेषां प्रयुक्ते नान्तरीयकम्।

पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम्॥ ८४॥

(श्‍लोकवा.) इति।

Showing 451 to 460 of 746 verses