गौर्गौः कामदुघा सम्यक्प्रयुक्ता स्मर्यते बुधैः।
दुष्प्रयुक्ता पुनर्गोत्वं प्रयोक्तुः सैव शंसति॥ ९३॥
शब्दान्तरमभ्यासः सङ्ख्या संज्ञा गुणः प्रकरणमिति शब्दान्तरादयः; तेभ्यः क्रियादीनामनेकत्वं शब्दान्तरादिभेदः। तेषु शब्दान्तरात् क्रियाभेदो यथा—
आरोहत्यवनीरुहः प्रविशति श्वभ्रं नगः स्पर्धते खं व्यालेढि विवेष्टते क्षितितले कुञ्जोदरे लीयते।
अन्तर्भ्राम्यति कोटरस्य विसरत्यालम्बते वीरुधः किं तद् यन्न करोति मारुतवशं यातः कृशानुर्वने॥ ९४॥
अभ्यासात् क्रियाभेदो यथा—(गा.स. ९०२)
जाणिमि कआवराहं जाणिमि अलिआइ भणइ सअलाइं।
अणुणेंते उण जाणे कआवराहं व अप्पाणं॥ ९५॥