सामर्थ्यार्थित्वादेः क्वचिदयोग्यता क्रियान्तरव्युदासः, यथोच्यते—'क्वचित् कश्चित् प्रगल्भते', 'न सर्वः सर्वं जानाति'; 'किमपि कस्मैचिद्रोचते', 'भिन्नरुचिर्हि लोक' (रघु. ६.३०) इति। यथा च—(शाकु. ५.२८)
कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कजान्येव।
वशिनां हि परपरिग्रहसम्पर्कपराङ्मुखी वृत्तिः॥ ९०॥
शब्दान्तरोपलब्धवस्तुसामर्थ्यात् सामान्याक्षिप्तस्य विशेषेऽवस्थापनं लिङ्गाद् भेदः। यथा 'अक्ताः शर्करा उपदधाति, तेजो वै घृतम्' इति शर्कराणां घृताक्तत्वं प्रतीयते। यथा च—
न त्वं पुत्र ! पितुर्बिभेषि न च मे किंचिद् विधत्से वचः क्वेदं बालविरुद्धसाहसमिति व्याहृत्य सावेगया।
उत्तीर्णस्य जयन्ति दान्तभुजगस्याश्लिष्य मात्रा हरे— र्निर्धूताश्चलकाकपक्षशिखरव्यासङ्गिनोऽम्भःकणाः ॥ ९१॥
अत्र दान्तभुजगस्येत्यम्भः कणा इति च लिङ्गाद् यमुनाह्रदादुत्तीर्णस्येति विशेषो गम्यते।