यस्याहुश्शशिमच्छिरो हर इति स्तुत्यं च नामामराः सोऽव्यादिष्टभुजङ्गहारवलयस्त्वां सर्वदोमाधवः॥ ८७॥
पदार्थसमवायिनोऽर्थविशेषस्य शब्दान्तरेण पृथक्करणम् अपोद्धारः। यथा—'वायव्यं श्वेतमालभेत, वायुर्वै क्षेपिष्ठा देवता' इति। एवं च वृत्तिच्छन्नस्य सर्वनाम्नानुसन्धानं भवति। तद्यथा— (कुसं. ७.१९)
पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम्।
सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान॥ ८८॥
अत्रानेनेति सर्वनाम्ना रञ्जयित्वेति श्रुतौ समवेतश्चरणरागः पृथगपोद्ध्रियते।
प्रसिद्धपदार्थावधारणेऽप्रसिद्धपदार्थपर्यनुयोगः अनिर्ज्ञातप्रश्नः। यथा वनात् पिक आनीयतां, जीर्णवरासी वृषलाय दीयतामित्युक्ते कोऽयं पिको नाम यो वनादानेयः, का वा वरासी या वृषलाय दातव्येति। एतेन प्रसिद्धाभिधानार्थावधारणे अप्रसिद्धाभिधानार्थपर्यनुयोगो व्याख्यातः। यथा— (शाकु. ५.१३)
कास्विदवकुण्ठनवती नातिपरिस्फुटशरीरलावण्या।
मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम्॥ ८९॥