भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 411 to 420 of 1676 verses
किं तर्हि ? शब्दार्थस्य।

स च शब्दकल्पनापूर्वकार्थप्रतिपत्तिव्यतिरेकेण नोपपन्‍नो भवति। यच्‍चोक्तं न स्वरूपेण शब्दस्य काचिदनुपपत्तिरिति, सत्यं तत्। किं तु सार्थद्वारिकापि शब्दानुपपत्तिर्न शब्दान्तरकल्पनां विनोपशाम्यति। न ह्योदनं प्रत्यक्षेणापि प्रतियतः पचतीत्युक्ते कर्मपदापेक्षा न भवति।

यच्‍चोक्तं कल्प्यमानस्यार्थस्यावैदिकत्वं मा भूदिति श्रूयमाणस्यैव शब्दस्यायमिषोरिव दीर्घदीर्घो व्यापार इति, तदपि न सम्यक्, तस्य तथाविधार्थप्रत्यायनासामर्थ्यात्। स हि तमर्थं प्रत्याययन्नभिधाशक्त्या वा प्रत्याययेत् तात्पर्यशक्त्या वा ?

न तावदभिधाशक्त‍या, तस्याः पदार्थप्रतिपादनमात्र एवोपक्षीणत्वात्।

नापि तात्पर्यशक्त्या। तात्पर्यशक्तिर्हि प्रतीयमानार्थविषया तत्रैव प्रकाशते, यत्र वाक्यवाक्यार्थयोः परिपूर्णत्वं भवति; यथा 'विषं भुङ्क्ष्व, मा चास्य गृहे भुक्था' इति। अत्र तु परिपूर्णे वाक्ये नार्थः परिपूर्ण इति तात्पर्यशक्तेरवकाशः। न हि तां तथाविधां त्वमत्याक्षीरित्यादिपदप्रयोगं विना वाक्यार्थस्य परिपूर्णत्वं भवति, तस्मादवश्यमेवार्थस्य शाब्दत्वसिद्धयेऽध्याहारवाक्यशेषादिशब्दकल्पना अभ्युपेया। तस्यां च सत्यां तत एवार्थसिद्धेः किमर्थकल्पनयेति।

न च श्रूयमाणस्यैव शब्दस्यायमर्थ इति शक्यमभिधातुम्, तस्य ह्यनुपपद्यमान एवार्थो, न पुनरुपपादकः। किंच पदार्थानामेव वाक्यार्थत्वात्, कल्प्यमान— वाक्यार्थगतपदार्थाभिधायिनां पदानां सत्त्वमभिधातव्यम्। न च श्रूयमाणे वाक्ये तानि तथाभूतानि सन्ति। अपि चायमेवंविधो बोधस्तिरश्चामनुपजायमानत्वान्नाशब्दज्ञस्य भवति। तदस्य सविकल्पकज्ञानात् पूर्वकालभाविना शब्दविज्ञानेन भाव्यम्।

न चेहार्थापत्तेः शब्दविषयत्वं न अभ्युपेयते। न चेहार्थापत्तिव्यतिरेकेण सविकल्पकप्रत्यक्षादिप्रमाणवच्छब्दसहचरितार्थदर्शनादिनिमित्तकं स्मृत्याद्युपायान्तरं शब्दावगतावस्ति। तस्मादर्थापत्त्या पूर्वं शब्द एव प्रत्येतव्यः। तस्मिंश्च प्रतिपन्ने तत एवार्थावगमोऽपि भविष्यतीति न तात्पर्यतः श्रूयमाण एव शब्दः परिक्लेशनीयः। यदि च श्रुतार्थापत्तेः शब्दविषयत्वं नाभ्युपेयते तद् 'उपदेशे यथोपदेश कार्यमतिदेशे तु यथाकार्यमुपदेश (न्या.म.) इति न्यायादतिदेशागताग्न्यादिपदार्थानुपपत्तौ 'अग्‍नये त्वा जुष्टं निर्वपामि' इत्यादिवाक्येषु सूर्यायेत्यादिपदानामूहो न स्यात्। तस्मादवश्यमेव अध्याहारवाक्यशेषादिसिद्धये श्रुतार्थापत्तिरभ्युपगन्तव्येति।

(३७. अवधिः)

अस्यैतावतः शब्दस्यायमर्थोऽस्मिन्नर्थे चायमेतावाञ्छब्द इति बुद्धिनिबन्धनम् अवधिः। तद्यथा— काले नदन्ति नागाः, श्वेतो धावति, अलम्बुसानां याता इति। यदा पदानामवधिः तदा समये शब्दायन्ते फणिनः, शुक्लो धावति, अलम्बुसानां गन्तेत्यर्थः प्रतीयते। यदा तु 'कालेन दन्तिना अगाः', 'श्वा इतः धावति', 'अलं बुसानां याता' इति, तदा 'कृष्णेन करिणा गतवानसि', 'कौलेयकोऽत्र वेगेन सरति', 'समर्थो बुसानां गन्ता' इत्यर्थान्तरप्रतीतिः। तमिममलङ्कारेषु तद्विदः शब्दश्लेषमामनन्ति; यथा—

येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यो गङ्गां च दधेऽन्धकक्षयकरो यो बर्हिपत्रप्रियः।

Showing 411 to 420 of 1676 verses