भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 391 to 400 of 1676 verses
यथा वा— (बा.रा. २.४१)

वन्द्यः पितेव स भवान्नलकूबरस्य रम्भा स्‍नुषा धनपतेरिव सा तवापि।

यत्त्वन्यदत्र हृदयान्न तदेति कण्ठं दोषास्तथापि यदि तत्स्मृत एष रुद्र॥ ८६॥

कः पुनरध्याहारवाक्यशेषयोर्विशेषः ?

शब्दाकाङ्क्षानिवर्तकोऽध्याहारः, अर्थाकाङ्क्षानिवर्तको वाक्यशेष इति।

यद्येवमनन्तरश्लोकयोरध्याहारोदाहरणताप्रसङ्गः। तथा हि — तामेव त्वं तथाग्‍नौ विशुद्धामाहितगर्भामनागसं विस्त्रब्धां च धर्मपत्नीमत्याक्षीरिति प्रथमश्लोको, कामयमानायामपि च स्‍नुषायां अकामतोऽपि यत्प्रधर्षणं तन्महापातकेषु प्रकृष्यते, किमङ्ग ! पुनरकामयमानायाः शपन्त्याः क्रोशन्त्याश्च हठेनेति द्वितीयश्लोके वाक्यस्यैवापरिपूर्णभावेनाकाङ्गितमध्याह्रियते।

तन्न; 'शान्तमथा किमतः परेण', 'यत्त्वन्यदत्र हृदयान्न तदेति कण्ठम्', इत्यनेन शब्दाकाङ्क्षाया निवर्तितत्वात्।

अर्थाकाङ्क्षा तु विद्यते। तत्र तु यथोक्त एव वाकर्यशेषो भवति अथैव प्रत्युक्षानुमानोपमानशब्दैरनुपलभ्यमानः किंप्रमाणविषयः स्यात् ?

अध्याहारवच्छुतार्थापत्तिप्रमेय इति।

ननु श्रुतार्थापत्तिर्नाम वाक्यैकदेशविषयं वाक्यशेषविषयं वा किंचित् प्रमाणमस्ति ?

Showing 391 to 400 of 1676 verses