वन्द्यः पितेव स भवान्नलकूबरस्य रम्भा स्नुषा धनपतेरिव सा तवापि।
यत्त्वन्यदत्र हृदयान्न तदेति कण्ठं दोषास्तथापि यदि तत्स्मृत एष रुद्र॥ ८६॥
कः पुनरध्याहारवाक्यशेषयोर्विशेषः ?
शब्दाकाङ्क्षानिवर्तकोऽध्याहारः, अर्थाकाङ्क्षानिवर्तको वाक्यशेष इति।
यद्येवमनन्तरश्लोकयोरध्याहारोदाहरणताप्रसङ्गः। तथा हि — तामेव त्वं तथाग्नौ विशुद्धामाहितगर्भामनागसं विस्त्रब्धां च धर्मपत्नीमत्याक्षीरिति प्रथमश्लोको, कामयमानायामपि च स्नुषायां अकामतोऽपि यत्प्रधर्षणं तन्महापातकेषु प्रकृष्यते, किमङ्ग ! पुनरकामयमानायाः शपन्त्याः क्रोशन्त्याश्च हठेनेति द्वितीयश्लोके वाक्यस्यैवापरिपूर्णभावेनाकाङ्गितमध्याह्रियते।
तन्न; 'शान्तमथा किमतः परेण', 'यत्त्वन्यदत्र हृदयान्न तदेति कण्ठम्', इत्यनेन शब्दाकाङ्क्षाया निवर्तितत्वात्।
अर्थाकाङ्क्षा तु विद्यते। तत्र तु यथोक्त एव वाकर्यशेषो भवति अथैव प्रत्युक्षानुमानोपमानशब्दैरनुपलभ्यमानः किंप्रमाणविषयः स्यात् ?
अध्याहारवच्छुतार्थापत्तिप्रमेय इति।
ननु श्रुतार्थापत्तिर्नाम वाक्यैकदेशविषयं वाक्यशेषविषयं वा किंचित् प्रमाणमस्ति ?