भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 391 to 400 of 746 verses
यदपि चान्विताभिधाने शक्तिद्वयकल्पनागौरवमाशङ्कितं, तदपि नास्ति। अन्वयवत्ता ह्यन्वितता। तदभिधानेनान्वितोऽभिहितः स्यात्। न हि दण्डीत्यत्र दण्डो नाभिधीयत इति। सम्भवति परं विशेषः; तत्र प्रकृत्या विशेषणाभिधानम्, इह तेनैव, अन्यतस्तदलाभात्। अतोऽन्विताभिधानशक्त्यैवान्वयोऽप्यभिधीयत इति नास्ति शक्तिद्वयकल्पनागौरवम्। तदुक्तम्—

व्यतिषक्तार्थबुद्ध‍या हि व्यतिषङ्गो निशम्यते।

अपरं तु न संसर्गप्रतीतेरस्ति कारणम्॥ ७१॥

प्रतिपत्त्याऽन्वयं यस्मात्प्रतीयादन्वितं पुमान्।

व्यक्तिं जातिमिवार्थोऽसाविति सम्परिकीर्त्यते॥ ७२॥

(प्रप.१७)

योऽपि प्रधानद्वयशङ्कया वाक्यभेदलक्षणो दोषः, सोऽपि नोपपद्यते। यतोऽन्वितः सम्बन्ध उच्यते। तत्र कश्चित् प्रधानतया सम्बन्धः कश्चिद् गुणतया; यश्च यथा सम्बन्धः स तथैवोच्यत इति नैकस्मिन् वाक्ये प्रधानद्वयप्रसङ्गाद् वाक्यभेदलक्षणदूषणोत्पत्तिः। तदुक्तम्—

प्रधानगुणभावेन लब्धान्योन्यसमन्वयात्।

पदार्था एव वाक्यार्थं सङ्गिरन्ते विपश्चितः॥ ७३॥

प्रतिपत्तिर्गुणानां तु प्रधानैकप्रयोजना।

Showing 391 to 400 of 746 verses