यदपि चान्विताभिधाने शक्तिद्वयकल्पनागौरवमाशङ्कितं, तदपि नास्ति। अन्वयवत्ता ह्यन्वितता। तदभिधानेनान्वितोऽभिहितः स्यात्। न हि दण्डीत्यत्र दण्डो नाभिधीयत इति। सम्भवति परं विशेषः; तत्र प्रकृत्या विशेषणाभिधानम्, इह तेनैव, अन्यतस्तदलाभात्। अतोऽन्विताभिधानशक्त्यैवान्वयोऽप्यभिधीयत इति नास्ति शक्तिद्वयकल्पनागौरवम्। तदुक्तम्—
व्यतिषक्तार्थबुद्धया हि व्यतिषङ्गो निशम्यते।
अपरं तु न संसर्गप्रतीतेरस्ति कारणम्॥ ७१॥
प्रतिपत्त्याऽन्वयं यस्मात्प्रतीयादन्वितं पुमान्।
व्यक्तिं जातिमिवार्थोऽसाविति सम्परिकीर्त्यते॥ ७२॥
योऽपि प्रधानद्वयशङ्कया वाक्यभेदलक्षणो दोषः, सोऽपि नोपपद्यते। यतोऽन्वितः सम्बन्ध उच्यते। तत्र कश्चित् प्रधानतया सम्बन्धः कश्चिद् गुणतया; यश्च यथा सम्बन्धः स तथैवोच्यत इति नैकस्मिन् वाक्ये प्रधानद्वयप्रसङ्गाद् वाक्यभेदलक्षणदूषणोत्पत्तिः। तदुक्तम्—
प्रधानगुणभावेन लब्धान्योन्यसमन्वयात्।
पदार्था एव वाक्यार्थं सङ्गिरन्ते विपश्चितः॥ ७३॥
प्रतिपत्तिर्गुणानां तु प्रधानैकप्रयोजना।