(अनु—)योग्यप्रतियोग्यन्वितस्य वाचकत्वमिति।
एवं च स्मरता स्मृतमेव अनन्वितमपि स्वरूपमन्वयभाजां भवति।
ननु श्रूयमाणेन पदेन योऽर्थो नावबोधितः स कथमन्तर्हिते तस्मिन् अवबोध्यते ?
उच्यते — अभिहितान्वयवादिनोऽपि नायं नियमः श्रूयमाण एव पूर्ववर्णजनित— संस्कारसहितोऽन्त्यो वर्णः प्रत्यायक इति। बालिशाधीतात् प्रागनवधृतार्थाद् अपरिज्ञाने संस्कृतस्य (अङ्गपरिज्ञानसंस्कारात्) पश्चात् श्रुतादपि भेदा(वेदाद)र्थावगमदर्शनात्, तेन स्मृत्यारूढस्यावगमकत्वमदोषः; श्रूयमाणेन हि पदेन प्रतियोगिसापेक्षत्वादन्विता— भिधानस्य प्राक् सहकारिविरहादर्थोऽनभिहितः पश्चादभिधीयत इति किमनुपपन्नम् ?
पदजातं श्रुतं सर्वं स्मारितानन्वितार्थकम्।
न्यायसम्पादितव्यक्ति पश्चादन्वितबोधकम्॥ ७७॥
स्मृतिसन्निहितैरेवमर्थैरन्वितमात्मनः।
अर्थमाह पदं सर्वमिति नान्योन्यसंश्रयः॥ ७८॥