भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 421 to 430 of 746 verses
(प्रप.१५)

कथं पुनरन्विताभिधायिना पदेन स्वरूपमात्रं स्मारयितुं शक्यते ? उच्यते—'अन्वितस्याप्यभिधाने स्वरूपमात्रस्य विद्यमानत्वान्नायं नियमः यावद् गृहीतं तावत् स्वकर्तव्यं स्मर्तव्यम्, अपि त्वगृहीतं तु न स्मर्यत इति।

ननु च शब्दस्य स्वरूपाभिधानशक्त्यभावदप्रामाण्ये कथं शब्दश्रवणात् स्वरूपस्मरणं भवति ? उच्यते— न हि यत्प्रमाणं तत्स्मृतिक(का)रणं, किंतु (अ)प्रमाणमेव तत्। यस्य तु येन सह काचित् प्रत्यासत्तिः प्रतीतपूर्वा स तत्र संस्कारोद्‍बोधद्वारेण शक्‍नोत्येव स्मृतिमाधातुम्। अस्ति च स्वरूपस्यापि तदभिधेयान्तर्गत्या शब्देन सह प्रत्यासत्तिरिति शक्‍नोति तत्रापि (शब्दः स्मृतिं) जनयितुम्। यथा निर्विकल्पकदशाप्रतीतमर्थस्वरूपमात्रम(न)भिधेयमपि शब्दं स्मारयति तथा शब्दोऽप्यर्थमिति न किंचिदनुपपन्नम्। तथा चाहुः—(प्रकरणपञ्चिकायाम्)

अन्वितस्याभिधानेऽपि स्वरूपं विद्यते सदा।

तेन स्वरूपमात्रेऽपि शब्दो जनयति स्मृतिम्॥ ७९॥

यथार्थेनाप्रमाणेन स्वपदं स्मार्यते क्‍वचित्।

पदेनाप्यप्रमाणेन तथार्थः स्मारयिष्यते॥ ८०॥

(प्रप.१३–१४)

नन्वेयं यथा (दा)—स्मृतिसन्निहितमाश्रित्यान्विताभिधानं पदैः क्रियते तथा(दा) स्मरणस्य प्रत्त्यासत्तिनिबन्धनत्वादनेकेषां च (अर्थानां) प्रत्यासत्तिसम्भवात् तेषु स्मृतिसन्निहितेष्वगृह्यमाणविशेषत्वाद् उखायां पचतीति नोखा पचत्यर्थान्वितैव केवलाभिधीयेत, सा हि कुलालनिर्वापाद्यन्वितापि प्रतिपन्नेति स्मरणात् तदन्विताप्युखाभिधीयेत, तथा पचत्यर्थोऽपि पिष्टकादिकर्मकोऽवगत इति तत्स्मरणन्नोखान्वितोऽभिधीयेतेति।

तन्न; शब्दैः स्मारितानामन्वयबोधकत्वाद् वृद्धव्यवहारेऽपि तथा दर्शनाद् य एव हि शब्देन स्मारितोऽर्थस्तेनैवान्विताभिधान—(मिति) कुलालनिर्वापाद्यन्विताप्य— भिधीयत इति॥

Showing 421 to 430 of 746 verses