कथं पुनरन्विताभिधायिना पदेन स्वरूपमात्रं स्मारयितुं शक्यते ? उच्यते—'अन्वितस्याप्यभिधाने स्वरूपमात्रस्य विद्यमानत्वान्नायं नियमः यावद् गृहीतं तावत् स्वकर्तव्यं स्मर्तव्यम्, अपि त्वगृहीतं तु न स्मर्यत इति।
ननु च शब्दस्य स्वरूपाभिधानशक्त्यभावदप्रामाण्ये कथं शब्दश्रवणात् स्वरूपस्मरणं भवति ? उच्यते— न हि यत्प्रमाणं तत्स्मृतिक(का)रणं, किंतु (अ)प्रमाणमेव तत्। यस्य तु येन सह काचित् प्रत्यासत्तिः प्रतीतपूर्वा स तत्र संस्कारोद्बोधद्वारेण शक्नोत्येव स्मृतिमाधातुम्। अस्ति च स्वरूपस्यापि तदभिधेयान्तर्गत्या शब्देन सह प्रत्यासत्तिरिति शक्नोति तत्रापि (शब्दः स्मृतिं) जनयितुम्। यथा निर्विकल्पकदशाप्रतीतमर्थस्वरूपमात्रम(न)भिधेयमपि शब्दं स्मारयति तथा शब्दोऽप्यर्थमिति न किंचिदनुपपन्नम्। तथा चाहुः—(प्रकरणपञ्चिकायाम्)
अन्वितस्याभिधानेऽपि स्वरूपं विद्यते सदा।
तेन स्वरूपमात्रेऽपि शब्दो जनयति स्मृतिम्॥ ७९॥
यथार्थेनाप्रमाणेन स्वपदं स्मार्यते क्वचित्।
पदेनाप्यप्रमाणेन तथार्थः स्मारयिष्यते॥ ८०॥
नन्वेयं यथा (दा)—स्मृतिसन्निहितमाश्रित्यान्विताभिधानं पदैः क्रियते तथा(दा) स्मरणस्य प्रत्त्यासत्तिनिबन्धनत्वादनेकेषां च (अर्थानां) प्रत्यासत्तिसम्भवात् तेषु स्मृतिसन्निहितेष्वगृह्यमाणविशेषत्वाद् उखायां पचतीति नोखा पचत्यर्थान्वितैव केवलाभिधीयेत, सा हि कुलालनिर्वापाद्यन्वितापि प्रतिपन्नेति स्मरणात् तदन्विताप्युखाभिधीयेत, तथा पचत्यर्थोऽपि पिष्टकादिकर्मकोऽवगत इति तत्स्मरणन्नोखान्वितोऽभिधीयेतेति।
तन्न; शब्दैः स्मारितानामन्वयबोधकत्वाद् वृद्धव्यवहारेऽपि तथा दर्शनाद् य एव हि शब्देन स्मारितोऽर्थस्तेनैवान्विताभिधान—(मिति) कुलालनिर्वापाद्यन्विताप्य— भिधीयत इति॥