एवं चैतदप्युपपद्यते संहत्याऽर्थमभिदधति पदानि वाक्यम्, एकार्थपरः पदसमूहो वाक्यमिति सङ्घातार्थपारतन्त्र्यात् पदानां स्वार्थाभिधानं न सम्भवति। न च सङ्घातकार्यमकुर्वन्ति क्वचिदपि पदानि दृश्यन्ते, न ह्येषां सङ्घातकार्ये स्वकार्ये च पृथक्प्रयोगो विद्यते, सर्वथा सङ्घातकार्य एव प्रयोगात्।
नैवम्। संहतानां सङ्घातकार्यवत् स्वकार्यस्याप्युपलम्भात्, यथा शकटाङ्गानामयमंशोऽनेन कृतोऽयमनेनेति, न च शकटाङ्गान्यपि पृथक्प्रयुज्यमानानि स्वकार्यं कुर्वन्ति दृश्यन्ते।
किं पुनः पदानां स्वकार्यम् ?
याऽसौ स्वार्थप्रतिपत्तिः।
याऽसौ वाक्यार्थप्रतिपत्तिः। तच्च पदानामेकैकस्य कृत्स्नफलपर्यन्तव्यापार— कारित्वात्। तथा ह्येकैकस्मिन् सति कृत्स्नफलपर्यन्तो व्यापारो निर्वर्तते, एकैकेन विना न निर्वर्तत इति एवं कृत्स्नकारि भवति।
किमत्र पदान्तरेण क्रियेत इति चेत्, सर्वकारकेष्वपि तुल्योऽयमनुयोगः। तत्र यथा संहत्य कुर्वन्ति कारणादीनि कार्याण्युच्यन्ते तथा संहत्याप्यभिदधति पदान्य— भिधायकान्युच्यन्ते॥
नन्वाकाङ्क्षासन्निधियोग्यताभिश्चेदन्वयोपपत्तिरभिहितान्वय एवास्तु किमन्विता— भिधानेन ? पदेषु ह्यनन्वितमपि स्वं स्वमर्थमभिधायोपरतव्यापारेष्वाकाङ्क्षादिभिः पदार्थानामन्वयप्रतीतिर्भविष्यतीति।
उच्यते, कस्येयमाकाङ्क्षा, शब्दस्यार्थस्य प्रमातुर्वा ? शब्दार्थयोस्तावद— चेतनत्वान्नाकाङ्क्षा, फलतः प्रमातुरेवेयम्। तत्र वाचोयुक्तिः—'शब्दः शब्दान्तरमाकाङ्क्षत्यर्थोऽर्थान्तरम्। स्वतन्त्रस्याऽऽकाङ्क्षा न प्रमाणं, पुरुषेच्छाया वस्तुस्थितेरयुज्यमानत्वाच्छब्दप्रमाणपृष्ठभावित्वेन त्वर्थेषु पुरुषस्याकाङ्क्षा भवन्ती भवत्यर्थानां संसर्गहेतुरित्येवं शब्दस्यैवायमिषोरिव दीर्घदीर्घो व्यापारः। उपरतव्यापारे तु शब्दे पुरुषस्याकाङ्क्षामात्रं न सम्बन्धकारणम्, अशाब्दत्वप्रसङ्गात्; साक्षाच्च शाब्दत्वसम्भवे व्यवधानाश्रयणस्यायुक्तत्वात्। अतो नान्यदन्विताभिधानात् संसर्गप्रतीतेः कारणमस्ति। न खल्वानय गां शुक्लामित्यादिवाक्येषु संसर्गपदं प्रयुज्यते यतः संसर्गप्रत्ययः स्यात्, प्रयुज्यमानमपि दशदाडिमादिवाक्यवदनन्वितार्थमेव स्यात्। तस्मात् 'पदानानामन्विताभिधानमेव न्याय्यमि'—ति॥