भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 441 to 450 of 746 verses
(प्रप.२) इति।

एवं चैतदप्युपपद्यते संहत्याऽर्थमभिदधति पदानि वाक्यम्, एकार्थपरः पदसमूहो वाक्यमिति सङ्घातार्थपारतन्त्र्यात् पदानां स्वार्थाभिधानं न सम्भवति। न च सङ्घातकार्यमकुर्वन्ति क्‍वचिदपि पदानि दृश्यन्ते, न ह्येषां सङ्घातकार्ये स्वकार्ये च पृथक्प्रयोगो विद्यते, सर्वथा सङ्घातकार्य एव प्रयोगात्।

नैवम्। संहतानां सङ्घातकार्यवत् स्वकार्यस्याप्युपलम्भात्, यथा शकटाङ्गानामयमंशोऽनेन कृतोऽयमनेनेति, न च शकटाङ्गान्यपि पृथक्प्रयुज्यमानानि स्वकार्यं कुर्वन्ति दृश्यन्ते।

किं पुनः पदानां स्वकार्यम् ?

याऽसौ स्वार्थप्रतिपत्तिः।

किं वा सङ्घातकार्यम् ?

याऽसौ वाक्यार्थप्रतिपत्तिः। तच्‍च पदानामेकैकस्य कृत्स्नफलपर्यन्तव्यापार— कारित्वात्। तथा ह्येकैकस्मिन् सति कृत्स्नफलपर्यन्तो व्यापारो निर्वर्तते, एकैकेन विना न निर्वर्तत इति एवं कृत्स्नकारि भवति।

किमत्र पदान्तरेण क्रियेत इति चेत्, सर्वकारकेष्वपि तुल्योऽयमनुयोगः। तत्र यथा संहत्य कुर्वन्ति कारणादीनि कार्याण्युच्यन्ते तथा संहत्याप्यभिदधति पदान्य— भिधायकान्युच्यन्ते॥

नन्वाकाङ्क्षासन्निधियोग्यताभिश्चेदन्वयोपपत्तिरभिहितान्वय एवास्तु किमन्विता— भिधानेन ? पदेषु ह्यनन्वितमपि स्वं स्वमर्थमभिधायोपरतव्यापारेष्वाकाङ्क्षादिभिः पदार्थानामन्वयप्रतीतिर्भविष्यतीति।

उच्यते, कस्येयमाकाङ्क्षा, शब्दस्यार्थस्य प्रमातुर्वा ? शब्दार्थयोस्तावद— चेतनत्वान्नाकाङ्क्षा, फलतः प्रमातुरेवेयम्। तत्र वाचोयुक्तिः—'शब्दः शब्दान्तरमाकाङ्क्षत्यर्थोऽर्थान्तरम्। स्वतन्त्रस्याऽऽकाङ्क्षा न प्रमाणं, पुरुषेच्छाया वस्तुस्थितेरयुज्यमानत्वाच्छब्दप्रमाणपृष्ठभावित्वेन त्वर्थेषु पुरुषस्याकाङ्क्षा भवन्ती भवत्यर्थानां संसर्गहेतुरित्येवं शब्दस्यैवायमिषोरिव दीर्घदीर्घो व्यापारः। उपरतव्यापारे तु शब्दे पुरुषस्याकाङ्क्षामात्रं न सम्बन्धकारणम्, अशाब्दत्वप्रसङ्गात्; साक्षाच्‍च शाब्दत्वसम्भवे व्यवधानाश्रयणस्यायुक्तत्वात्। अतो नान्यदन्विताभिधानात् संसर्गप्रतीतेः कारणमस्ति। न खल्वानय गां शुक्लामित्यादिवाक्येषु संसर्गपदं प्रयुज्यते यतः संसर्गप्रत्ययः स्यात्, प्रयुज्यमानमपि दशदाडिमादिवाक्यवदनन्वितार्थमेव स्यात्। तस्मात् 'पदानानामन्विताभिधानमेव न्याय्यमि'—ति॥

Showing 441 to 450 of 746 verses