भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 431 to 440 of 746 verses
किंचान्वितार्थाभिधान एवेदं प्रतिनियतार्थान्वयित्वमुपपद्यते। यत्पदान्तरा— भिधेयतया स्मार्यते तदन्वितस्यैव वृद्धव्यवहारे वाच्यत्वदर्शनात्, यत्रापि चाध्याहारस्तत्रापि सन्निधापकवशेन विशेषान्विताभिधानलाभ इति लोक(त)एव ज्ञानमिति न कश्चिद्दोषः। अपि च ज्ञानं तावदनेनायमर्थोऽन्वितो वाच्य इति। तत्र यद्यनेनाप्यन्विताभिधानं स्यात् वाक्यभेदो भवेत्, न चासावेकवाक्यत्वसम्भवो(वे) न्याय्यः। तदुक्तम्—

सम्भवत्येकवाक्यत्वे वाक्यभेदश्च नेष्यते॥ ८१॥

(श्‍लोवा. १.१.१,९) इति।

यच्‍चोक्तमन्विताभिधानपक्षेऽन्वितस्यैव पदार्थस्याभिधानादङ्गुल्यग्रादिवाक्ये— ष्वप्यन्वयः प्राप्‍नोति। तत्र स्मृतानामप्यर्थानामयोग्यत्वेनान्वयाभावादनभिधानमेव, पदार्थप्रतिपत्तिस्तु स्मृत्यैवोपपद्यत इति। यत्पुनः पुंवचसामर्थे प्रामाण्याभ्युपगमात् पदानां वाचकशक्तिरेव नावधार्यते। कुतोऽन्विताभिधानमित्युक्ते x x x x देव तावद् वक्तव्यं; न वयं पुरुषवाक्यानामर्थे प्रामाण्यमभ्युपगच्छामः। येषामपि चाभ्युपगमस्तेषामपि न दोषः, यतः पदमन्विताभिधायकत्वेन व्युत्पन्नं व्यभिचाराशङ्कया तु लोकेन तन्निश्चायकं पश्चादाप्‍तत्वालोचनयानुमितेऽर्थेऽनुवादकं तदिति प्रामाण्यमेव नासादयति॥ (प्रप.)

ननु च वाचकत्वमपि जहाति; पश्य— 'बालो हि व्युत्पद्यमानः प्रयोज्यवृद्धव्यवहारस्य शब्दश्रवणानन्तरभाविनीं विशिष्टचेष्टानुमिताम् अर्थप्रतीतिं शब्दकरणिकां तावदवगच्छति। स तथा व्युत्पन्नः कदाचिदनन्वितार्थपदरचनामुपलभते। तत्रोपलभमानस्य तस्यैष विमर्शो जायते सम्भाव्यमानानन्वितार्थपदरचनमिदं वाक्यं कथं वृद्धस्यार्थनिश्चयं कृतवत्। वृद्धस्यापि हि पुरुषायत्ते वाक्ये नान्वितार्थपदरचनाशङ्का मंमेव सम्भवतीति। तस्यैवं विचिकित्सोदये पुनरेष निश्चयो जायते— कृतम् अनेनायं वक्ता इत्थमवधारितः अन्वितार्थान्येव पदानि प्रयुङ्क्ते इति। तथाविधपदप्रयोगश्च नास्यानुपलब्धेऽन्वय उपपद्यत इत्येवमन्वयोपलम्भमनुमायानेनान्वयो निश्चितः। निश्चिते चान्वये वाक्यमेतदनुवादभूतमध्येति।

एवं चेद् अनुवादकतया तस्यार्थस्य तद्वाक्यं वाचकमेवेति पूर्ववाचकशक्तिज्ञानं नानर्थकमिति मन्यते। यदि परं मया प्रागनुमापुरस्सरोऽर्थनिश्चयोऽस्येति नावगतम्। यापि चेयमस्यानिश्चितेऽन्वये विशिष्टवक्‍तृज्ञानानुमा, सापि पदानां स्वरूपमात्रावगमादेव नोपपद्यते, किं तु विशेषावगमात्। न च शक्तेरन्यः पदानां विशेषोऽवकल्पते। अतो मयेवानेनाप्यमीषां पदानां वाचकशक्तिरवधारिता। तेन विशिष्टान्वयवाचकपदप्रयोगात् तत्‍तद्‍विषयं वक्तुः पूर्वविज्ञानमनुमितवानिति॥

नन्वनन्तप्रतियोग्यन्वितस्वार्थबोधनविषया अनन्ता एव शब्दस्य शक्तयः परिकल्पयितव्याः स्युः। अभिहितान्वयवादे त्वेकस्मिन्नर्थे शब्दस्यैकैकैव शक्तिरिति (प्रप.१०)।

तन्न। एकयैवाकाङ्क्षितसन्निहितयोग्यार्थान्वितस्वार्थाभिधानशक्त‍या प्रतियोगि— भेदेन चक्षुरादीनामिव कार्यभेदोपपत्तेः। यथैकयैव दर्शनशक्त‍या चक्षुः घटादिप्रतियोगिसहायभेदान्नानाज्ञानानि जनयति, तथा शब्दोऽपि प्रतियोगिभेदादिति मन्तव्यम्। एवं च—

पदैरेवान्वितस्वार्थमात्रोपक्षीणशक्तिभिः।

पदार्था बोधिता बुद्धौ वाक्यार्थोऽपि तथा सति॥ ८२॥

Showing 431 to 440 of 746 verses