भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 431 to 440 of 1087 verses
प्रतीच्छत्याशोकीं किसलयपरावृत्तिमधरः कपोलः पाण्डुत्वादवतरति तालीपरिणतिम्।

परिम्लानप्रायामनुवदति दृष्‍टिः कमलिनीं नवीनस्तन्वड्गया मनसिजविकारो विजयते॥ १०६॥

अत्र प्रतीच्छत्यवतरत्यनुवदतीति चेतनधर्मैरचेतने प्रयुक्तैरुपलक्षितेषु धारणप्राप्‍त्यनु, किसलयपरावृत्त्या श्वासधूसरत्वं लक्ष्यते, तेनापि तत्सामीप्यादशोक— किसलयौपम्यमिति; तालीपरिणत्या कमलिनीपरिम्लानतया च विरहकार्श्यं, तेन च स्नेहातिरेक इति। एवम्—(रत्‍ना. २.११)

परिम्लानं पीनस्तनजघनसङ्गादुभयत— स्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम्।

इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः कृशाङ्ग्या: सन्तापं वदति बिसिनीपत्रशयनम्॥ १०७॥

अत्र वदतीत्यनेनोपचारवृत्त्या ज्ञापयतीति, परिम्लानमित्यादिभिस्तद्धर्मैस्तस्याः तनुसन्निवेशचारुत्वोत्कर्षो लक्ष्यते। अपि च—

निर्माल्यं नयनश्रिपः कुवलयं वक्त्रस्य दासः शशी।

(बारा. १.४०) कन्दर्पस्य धनुर्लता किमपरं द्वारि भ्रुवोर्धार्यते॥ १०८॥

इति॥

अत्र निर्माल्यदासशब्दभ्यामुपचारवृत्त्या हीनत्वेन लक्षितेन नयनवक्त्रयोरुपमोत्कर्षो लक्ष्यते। कन्दर्पधनुर्लतायास्तु द्वारप्रवेशक्षणोपलक्षणेन हीनत्वेन तयोरपि सुतरां ब्रूते। किंच— (विस. २.१४)

Showing 431 to 440 of 1087 verses