दूइ तुमं विअ णिउणा कक्कसमहुआइ जाणसे वोल्लुं।
कंडुइअपंडरं जह ण होइ तह तं कुणिज्जासु॥ १०२॥
(दूति त्वमेव निपुणा कर्कशमृदुकानि जानासि वक्तुम्।
कण्डूयितपाण्डुरं यथा न भवित यथा तं करिष्यसि॥)
अत्र कण्डूयितपाण्डरमित्यनेन पारुष्यं लक्ष्यते; तेन तु स्नेहक्षतिरिति। अपि च—
गअणं च मत्तमेहं धाराळुळिअज्जुणाइ अ वणाइ।
णिरहंकारमिअंका हरति नीलाओ विअ णिसाओ॥ १०३॥
(गगनं च मत्तमेघं धारालुलितार्जुनानि च वनानि।
निरहङ्कारमृगाङ्का हरन्ति नीला अपि निशाः॥)