भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 411 to 420 of 595 verses
(न्यायमं.)

पचत इत्यादेर्हि यथा पाकादिर्धात्वर्थः प्रतीयते तथा कर्तृव्यापारः करोत्यर्थोऽपि, पाकाद्युपरञ्जकाभावेऽपि१ तत्प्रतीतेरनपायात्। यथा हि औपगवः, कापटवः, औपमन्यव इति उपगुप्रभृतीनामावापोद्वापयोरपि 'तस्यापत्यम्' (४.१.९२) इति प्रत्ययार्थोऽनुवर्तते, तथा पचति, पठति, गच्छतीत्यादावपि करोत्यर्थोऽनुवर्तमानो दृश्यते। तथा हि— यदा पचतीत्याख्यातपदस्य पदार्थो व्याचिख्यासितो भवति, तदा पाकं करोतीति वाक्यं व्याख्यातारः प्रयुञ्जते। तत्र पाकशब्देन द्वितीयान्तेन साध्यं प्रकृत्यर्थं कर्तृव्यापारं२ तु करोतीति पदेन व्याचक्षते। अपि च, किं करोति देवदत्त इति पृष्‍टास्सन्तो द्वये वक्तारो भवन्तिपचती'ति, पाकमिति। तदिदमुभयरूपमप्युत्तरमेकार्थम्, अन्यथा न तेन प्रष्‍टा प्रत्याय्येत। तस्मात् पाकं करोतीति पदद्वयस्य योऽर्थस्स एव पचतीत्येकपदस्येति।

आह— न प्रत्ययात् कर्तृसड्ख्याव्यतिरेकेण धात्वर्थातिरिक्तो व्यापारः प्रतीयते, प्रतीयते चेत् करोतीत्यत्रापि प्रतीयेत। तदुक्तम्—

यथा पाकं करोतीति व्यवहारो विभागतः।

तथा कारं करोतीति प्रतीतिर्नास्ति लौकिकी॥ ७०॥

(न्यायमं.)

तस्याः किं बीजमिति चेत् कृभ्वस्तीनां क्रियासामान्यवचनत्वम्। न च सामान्ये सामान्यानि भवन्ति, यथा हि यजेत दद्याज्जुहुयादिति करोतिसामान्यमवगम्यते नैवमस्ति भवतिकरोतीति।

ननु च कथं करोत्यर्थः करोतिशब्दान्नावगम्यते?

न नावगम्यते; किंतु यागादिविशेषानवच्छिन्नो नानुष्‍ठानयोग्यो भवति।

एवं तर्हि मा भूत् प्रत्ययार्थो भावना। प्रकृत्यर्थो भविष्यति। यथा हि शाबलेयादीनामनुगतं गोरूपमवभासते व्यावृत्तं च शाबलेयादिरूपम्, एवं यागादिकर्मणामनुगतं व्यापाररूपमवभासते। परस्परविभक्तं च यागादिरूपम्। तत्र यदनुगतं करोतिसामान्यं सा भावना, यद् व्यावृत्तं यागादिकं स धात्वर्थः। यथा च शाबलेयादेः पृथग्दर्शयितुं गोत्वमशक्यमेवं भावनापि यागादेः पृथग्दर्शयितुं न शक्यते।

Showing 411 to 420 of 595 verses