(२. सम्बोधनम् —६) सिद्धस्य क्रियार्थमभिमुखीकरणं सम्बोधनम्।
तत् षोढा नियोगनिषेधानुमत्युपालम्भप्रश्नाख्यानार्थभेदात्। तेषु— नियोगार्थं यथा—(कुसं. ३.३)
आज्ञापय ज्ञातविशेष! पुंसां लोकेषु यत् ते करणीयमस्ति।
अनुग्रहं संस्मरणप्रवृद्धमिच्छामि संवर्धितुमाज्ञया ते॥ ४४॥
निषेधार्थं यथा—(कुसं. ८.७६)
आर्द्रकेसरसुगन्धि ते मुखं मत्तमत्तनयनं स्वभावतः।
अत्र लब्धवसतिर्गुणान्तरं किं विलासिनि! मदः करिष्यति॥ ४५॥
अनुमत्यर्थं यथा—(कुसं. ३.१२)
सर्वं सखे! त्वय्युपपन्नमेतदुभे ममास्त्रे कुलिशं भवाँश्च।