पूर्वं तपोवीर्यमहत्सु कुण्ठं त्वं सर्वतोगामि च साधकं च॥ ४६॥
उपालम्भार्थं यथा—(कुसं. ५.६६)
अवस्तुनिर्बन्धपरे! कथं नु ते करोऽयमामुक्तविवाहकौतुकः।
करेण शम्भोर्वलयीकृताहिना सहिष्यते तत्प्रथमावलम्बनम्॥ ४७॥
प्रश्नार्थं यथा—(रघु. १६.८)
का त्वं शुभे! कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते।
आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति॥
आख्यानार्थं यथा—(कुसं. ८.५८)
नूनमुन्नमति यज्वनां पतिश्शार्वरस्य तमसो निषिद्धये।
पुण्डरीकमुखि! दिङ्मुखं यतः कैतकैरिव रजोभिराहतम्॥ ४९॥