अप्राप्य पर्वतमिमानि पुरोविलीननीरन्ध्रलोध्रवकुलानि वनस्थलानि।
आसेदुषस्तव हरिष्यति येष्वघौघमध्वक्लमं च सुरसिन्धुतरङ्गवातः॥ ४१॥
एवमिन्द्रियसुखस्य वर्त्मनस्सेवनादनुगृहीतमन्मथः।
शैलराजभवने सहोमया मासमेकमवसद् वृषध्वजः॥ ४२॥
उदन्वच्छिन्ना भूः स च निधिरपां योजनशतं सदा पान्थः पूषा गगनपरिमाणं गणयति।
इति प्रायो भावास्स्फुरदुपधिमुद्रामुकुलिताः सतां प्रज्ञोन्मेषा पुनरयमसीमा विजयते॥ ४३॥