गुणक्रियाणां कर्तारः कर्त्रा न्यक्कृतशक्तयः।
करणत्वादिभर्जाताः क्रियाभेदानुवादिभिः॥ ८७॥१
१. वाक्यपदीये ३.७.२०—३.७.२१ इति कारिकयोः पूर्वार्द्धे।
व्यस्ता(न्यक्ता)यामपि संपूर्णैस्स्वव्यापारैस्समन्विताः।
स्वातन्त्र्यमुत्तरं लब्ध्वा प्रधाने यान्ति कर्तृताम्॥ ८८॥१
यथा राज्ञो नियुक्तेषु योद्धृत्वं योद्धृषु स्थितम्।
तेषु वृत्तौ तु लभते राजा जयपराजयौ॥ ८९॥
तथा कर्त्रा नियुक्तेषु सर्वेष्वेकार्थकारिषु।
कर्तृत्वं करणादित्वैरुत्तरं न विरुध्यते॥ ९०॥