व्यज्यन्ते विजिगीषूणां द्रव्याणां शक्तयस्तथा॥ ८१॥
तैक्ष्ण्यगौरवकाठिन्यसंस्थानैः स्वैरसिर्यदा।
भेद्यं प्रति व्याप्रियते शक्तिमान् गृह्यते तदा॥ ८२॥
स्वाश्रये समवेतानां तद्वदेवाश्रयान्तरे।
क्रियाणामभिनिष्पत्तेर्निमित्तं शक्तिरिष्यते॥ ८३॥
तत्त्वे वा व्यतिरेके वा व्यतिरिक्तैव सोच्यते।
शब्दप्रमाणको लोकस्स शास्त्रेणानुगम्यते॥ ८४॥