तत्र शक्तिमतो द्रव्यस्य कारकाख्यायामवान्तरव्यापारनिबन्धनाः षडुपाख्या भवन्ति, १. कर्ता, २. कर्म, ३. करणम्, ४. संप्रदानम्, ५. अपादानम्, ६. अधिकरणम् चेति। तेषु—
किं पुनस्तस्य स्वातन्त्र्यम्, यत् करणादीनि प्रयुङ्क्ते, न तैः प्रयुज्यते, तानि न्यक्करोति, न तैर्न्यक्क्रियते, न तैर्निर्वर्त्यते, तानि निर्वर्तयति, तानि प्रतिनिधत्ते, न तैः प्रतिनिधीयते; तेभ्यस्सः प्रथममात्मानं लभते, न तानि। तस्मात् स तैर्विनाऽपि दृश्यते, न तानि तेनेति। तदाह—
प्रागन्यतश्शक्तिलाभान्न्यग्भावापादनादपि।
तदधीनप्रवृत्तित्वात् प्रवृत्तानां निवर्तनात्॥ ८५॥
अदृष्टत्वात् प्रतिनिधेः प्रविवेके च दर्शनात्।
आरादप्युपकारित्वे प्राधान्यं कर्त्तुरुच्यते॥ ८६॥
कथं तर्हि कर्तृशक्त्या न्यक्कृतेषु करणादिषु कारकत्वम्, स्वव्यापारे प्रधानव्यापारे च स्वातन्त्र्यात्। तदुक्तम्—