भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 371 to 380 of 756 verses
किं पुनस्साधनम्? स्वपराश्रितक्रियाभिनिर्वृत्तिहेतुश्शक्तिमद्‍द्रव्यं, यत् कारकम् इत्याचक्षते। कारकशब्दश्‍चायमव्युत्पन्नः क्रियानिमित्तवचनो लोकतस्सिद्धः करोतीति वा कारकशब्देन शक्तिमद् द्रव्यमुच्यते। तथा हि—

निष्पन्नमात्रे कर्तृत्वं सर्वत्रैवास्ति कारके।

व्यापारभेदापेक्षायां करणादित्वसंभवः॥ ७७॥

पुत्रस्य जन्मनि यथा पित्रोः कर्तृत्वमुच्यते।

अयमस्मादियं त्वस्मादिति भेदविवक्षया॥ ७८॥

शक्तिमात्रासमूहस्य विश्वस्यानेकधर्मिणः।

सर्वथा सर्वदा भावात् क्वचित् किञ्चिद् विवक्ष्यते॥ ७९॥

सर्वत्र सहजा शक्तिर्यावद्‍द्रव्यमवस्थिता।

क्रियाकाले त्वभिव्यक्तिराश्रयः परकारिणी॥ ८०॥

स्वाङ्गसंयोगिनः पाशा दैत्यानां वारुणा यथा।

Showing 371 to 380 of 756 verses