आतिष्ठति पदैष्षड्भिः स्त्रीजातिं कामषट्पदः॥ ७१॥
(सांसर्गिकः) परापरयौगपद्यचिरक्षिप्ररूपस्सांसर्गिकः।
अयं हि प्रवृत्तिसाधनानां पूर्वापरत्वे सहैकत्वे मन्दशीघ्रसमपातित्वे च क्रियास्वपेक्षमाणो मिथः संसर्गाय प्रभवति। यथा—
क्रमेण युगपत् पूर्वमग्रतो द्राक् चिरेण वा।
समासजन्त्यः चेतांसि न ज्ञायन्ते स्मरार्तयः॥ ७२॥
तेऽमी आगन्तुकनैसर्गिकसांसर्गिकास्त्रयोऽपि कालभेदाः स्वाभाविका उच्यन्ते, स्वभावत एव प्रवर्तमानत्वात्।
(सङ्कीर्णः) देश्यक्रीडाकेलिकेलिद्यूतव्रतगोष्ठीप्रेक्षादिरूपस्सङ्कीर्णः। स हि विशिष्टं तं तमवधिमपेक्षमाणस्संभूय प्रवर्तितस्सङ्कीर्ण एव भवति। यथा—
व्रतेषु गोष्ठीप्रेक्षासु केलिद्यूतेषु केलिषु।
देश्यक्रीडासु चानङ्गः पुनरङ्गेन युज्यते॥ ७३॥