(आगन्तुकः) मदप्रमदाभ्युदयोत्सवव्यसनपरिहासाभिरूप आगन्तुकः।
स हि विशिष्टक्रियोपनिपतादिकमवधिमपेक्षमाणः प्राणिनां मदप्रमदादिरूपेणैवागच्छति।
मदप्रमदहर्षेषु व्यसनेषूत्सवेषु च।
परिहासेषु च प्रायः कामस्संमानमर्हति॥ ७०॥
(नैसर्गिकः) बाल्यकौमारयौवनमौग्ध्यमाध्यस्थ्यप्रागल्भ्यादिरूपो नैसर्गिकः।
अयं हि वयोविभागादिकं विशिष्टमेवावधिमपेक्षमाणः प्राणिनां निसर्गत एव भवति।
मौग्ध्यप्रागल्भ्यमाध्यस्थ्यबाल्यकौमारयौवनैः।