भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 361 to 370 of 756 verses
(प्रकीर्णः) विविक्तदीर्घिकोद्यानसौधक्रीडादिदर्शनादिरूपः प्रकीर्णः। स ह्येकस्य वा परिमितपरिवारस्य वा विशिष्टावधिक एव प्रकीर्णकन्यायेन यदाकदाचिदुत्पद्यते।

यथा—

विविक्त—दीर्घिकोद्यान—सौध—क्रीडादि—दर्शने।

लतावेश्मोपवेशे च कामः कामेन युज्यते॥ ७४॥

(विप्रकीर्णः) अष्टमीचन्द्रकेन्द्रीत्सवयक्षरात्रिकुन्दचतुर्थीसुवसन्तकमदनत्रयोदश्यादिरूपो विप्रकीर्णकः। स हि विशिष्टमष्टम्यादिकालभेदावधिमपेक्षमाणः कामिभिर्निर्वर्त्यते। समस्तेष्वपि देशेषु विप्रकीर्ण इव दृश्यते इति। यथा—

अष्टमीचन्द्रके कुन्दचतुर्थ्यों सुवसन्तके।

स्मरस्स्मरार्चा—शक्रार्चा—यक्षरात्रिषु वर्धते॥ ७५॥

स एव कालः कार्त्स्न्येन द्विरूप इव दर्शितः।

क्रियापदैकवाच्यो यः क्रियायास्साधनं च यः॥ ७६॥

(३. कारकम् /द्रव्यम् (साधनपदार्थः))

Showing 361 to 370 of 756 verses