कीर्त्तितासु न कीर्त्त्यन्ते यासु कस्यापि कीर्त्तयः॥ २९॥
(प्रत्यापत्तिः) 'आख्यानात्कृतस्तदाचष्टे कृल्लुक्प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकम्' इत्यादिः। प्रत्यापत्त्युपस्कारार्थः, यथा—
शैलैर्बन्धयति स्म वानरहृतैर्वाल्मीकिरम्भोनिधिं
व्यासः पार्थशरैस्तथापि न तयोरत्युक्तिरूद्भाव्यते॥ ३०॥
(उपपदः) 'अपादाने परीप्सायां' णमुलित्यादिरुपपदोपस्कारार्थः, यथा—
किञ्चिच्छेषनिशातुषारमधुरस्पर्शं गृहप्राङ्गणे
शय्योत्थायमिहं व्रजन्ति हलिनां बालाः कुकूलानलम्॥ ३१॥
(२) प्रत्ययद्वारकोऽपि षोढा— लोपागमवर्णविकारविकरणादेशोपग्रहभेदात्। तेषु— लोपार्थः 'फलकुसुमयोर्लुक्' (४.३.१६६) यथा—