भर्तारं विपदि न दूषितातिभूमिः॥ ३५॥
आदेशार्थ 'आशिषि तुह्योस्तातङ्' (७.१.३५) यथा—
भवताद् भवतो मतिश्शुभा जयताज्जीव भवावनीश्वरः॥ ३६॥
उपग्रहार्थः 'अधेः प्रसहने' (१.३.३३) कृतेः आत्मनेपदम्, यथा—
भवादृशाश्चेदधिकुर्वते रतिं
निराश्रया हन्त हता मनस्विता॥ ३७॥
(३) उभयद्वारकः तु द्वादशधा— अवधि—सम्बोधन—क्रियाविशेषण—कारकविशेषण— शेष—परिशेष—सहार्थ—तादर्थ्य—हेतु—लक्षणोपपद—प्रकीर्णभेदात्। तत्र—
(१. अवधिः —६) क्रियादीनां मिथो मर्यादावधिः;