स पूर्वकालव्यतिहारपरापरयोगकालाध्वादिभेदादनेकप्रकारः। तेषु— पूर्वकालो यथा—(किराता. ४.६)
कृतोर्मिलेखं शिथिलत्वमायता शनैश्शनैश्शान्तरयेण वारिणा।
निरीक्ष्य रेमे स समुद्रयोषितां तरङ्गितक्षौमविपाण्डु सैकतम्॥३८॥
स्तनोपपीडं परिरभ्य चुम्बतोः प्रजल्पतोरप्यनवस्थितं मुहुः।
स्रजश्च यूनोरपमित्य याचतोरनिद्रयोरेव जगाम शर्वरी॥ ३९॥
प्रालेयाद्रेरुपतटमतिक्रम्य ताँस्तान् विशेषान् हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम्।
तेनोदीचीं दिशमनुसरेस्तिर्यगायामशोभी श्यामः पादो बलिविमथनाभ्युत्थितस्येव विष्णोः॥ ४०॥