वर्णप्रकर्षे सति कर्णिकारं दुनोति निर्गन्धतया स्म चेतः॥ ३२॥
आगमार्थो 'हृषेर्लोमसु' (७.२.२९) इट्, यथा—
आननैर्विचकसे (हृषिताभिः) वल्लभानभि तनूभिरभावि॥ ३३॥
वर्णविकारार्थः 'दिवोऽविजिगीषायां' (८.२.४९) निष्ठानत्वम्, यथा—
आद्यूनस्सद्गृहिण्येव प्रायो यष्ट्यावलम्बितः॥ ३४॥
विकरणार्थः, 'श्लिष आलिङ्गने' (३.१.४६) वसः, यथा—
आश्लिक्षद् भयचपलेक्षणा नवोढा