स च प्रयत्नपरिस्पन्दात्मौदासीन्यप्रच्युत्युपलक्ष्यमाणः पुरुषव्यापारः करोत्यर्थो भावना। कथं तर्हि काष्ठानां करणत्वम्? धात्वर्थस्य क्रियात्वात्; भावनायां तु धात्वर्थस्य करणत्वात्; करणविभक्त्युपादाने च प्रधानान्तरेण सम्बन्धायोगात्।
उच्यते— 'भावनासंबन्धाद्धात्वर्थोऽपि पूर्वापरीभूतो भावनात्मावगम्यत' इति तदपेक्षया काष्ठानां करणत्वम्। अतः स्थितमेतत्— 'त्र्यंशपरिपूर्णा भावना वाक्यार्थ' इति।
प्रवृत्तिनिवृत्त्योर्विधायकोऽर्थवादादिभिरुपक्रियमाणो लिङ्लोट्तव्यादिवाच्यः शब्दव्यापारो विधिः।
तेन हि भावनायां पुरुषः प्रवर्त्यते निवर्त्यते वा। यथा यावज्जीवमग्निहोत्रं जुहुयात्, ब्राह्मणं न हन्यात्, प्रैषाननुब्रूहि, मापभाषस्व होतुः, अष्टकाः कर्तव्याः (शाभा. १.३.१), सुरा न पातव्या, पितरो वन्दनीयाः, गुरवो नावमान्याः, शिवं ते भूयात्, मा त्वा श्येन उद्वधीदिति। स च सर्ववाक्यानामर्थः; सर्वं हि वाक्यं विधि /?/निषेधयोरेव पर्यवस्यति। यत्रापि च लिङादयो न श्रूयन्ते तत्रापि विधिनिषेधपरतया सर्ववाक्यानां वाक्यशेषभूतास्तेऽवगम्यन्ते। तद्यथा— 'इह देशे सुभिक्षमित्युक्तेऽत्रैव स्थातव्यं, मध्याह्नो वर्तत इत्युक्ते इहैव भोक्तव्यं, सचोरः पन्था इत्युक्ते न गन्तव्यं, ग्राहाः सरित्यस्यामित्युक्ते न स्नातव्यमिति प्रतीयते। किं च महाकाव्यैरपि रामायणादिभिरिदमेव व्युत्पाद्यते— 'रामस्य पितुराज्ञां पालयतो वननिवासिनोऽपि तथाविधोऽभ्युदयः संवृत्तः, रावणस्य परदारानभिलष्यतस्त्रैलोक्यविजयिनोऽपि तथाविध उच्छेदः; तस्मात् पितुराज्ञां पालयेत्, परदारान्नाभिलष्येत्, रामवद् वर्तेत न रावणवदिति।
नन्वाख्यातवाच्यत्वेन भावनैव विधिरित्युक्तं भवति। कथं च तत्रैव तस्य प्रवर्तकत्वं, स्वात्मनि क्रियाविरोधात्? तन्न, शब्दार्थभेदेन भावनाया द्वैविध्यात्। तदुक्तम्—
अभिधाभावनामाहुरन्यामेव लिङादयः।
अर्थात्मभावना त्वन्या सर्वाख्यातेषु गम्यते॥ ६२॥ (त.वा. २.१.१)
तत्र शब्दभावना प्रेरणात्मिका शब्दस्याभिधेया विधेया च। तदुक्तम्— 'अभिधत्ते करोति च' इति। सा त्वर्थभावनांशद्वयविषया, न फलांशविषया। तदुक्तम्—
फलांशे भावनायाश्च प्रत्ययो न विधायकः।