क्वचित् पुनर्यदेवास्य स्यात् प्रवृत्तिनिबन्धनम्।
तस्यैव वाच्यता भावप्रत्ययान्तपदेष्विव॥ ५५॥
इतीयं लेशतस्तावन्नाम्नां वृत्तिरुदाहृता।
आख्यातानां तु वाच्योऽर्थः पुरस्तादुपवर्णितः॥ ५६॥
उपसर्गनिपातानां नाम्नामप्यविभागतः।
प्रयोगप्रतिपत्तिभ्यामनेकोऽर्थोऽवगम्यते॥ ५७॥
उपसर्गवशाद्धातुरर्थान्तरविलासकृत्।
विहाराहारसंहारप्रहारपरिहारवत्॥ ५८॥
अन्वयव्यतिरेकाभ्यां तदर्थोऽभ्यवगम्यते।
तदागमे तत्प्रतीतेस्तदभावे तदग्रहात्॥ ५९॥