भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 351 to 360 of 1087 verses
अत्र पिङ्गत्वस्फारत्वसहकृतास्तदाश्रयाकारकान्त्यादयो' लक्ष्यन्ते।

४. 'अन्नं वै प्राणाः', 'आयुर्घृतम्' इत्यादिषु स्वार्थाविनाभूतनिमित्तकारणार्थान्तर— प्रतीतिहेतुर्हेतुलक्षणा। यथा— 'त्वं जीवितं त्वमसि मे हृदयं द्वितीयम्' (उराच.३.२६) इति। अत्र जीवितशब्देन हृदयशब्देन च जीवितचैतन्यहेतुः प्रियतमोच्यते।

५. 'इन्द्रः स्थूणा' 'मल्लिका प्रदीपा' इत्यादिषु तदर्थप्रतीतिहेतुः तादर्थ्यलक्षणा। यथा—

आरूढो मलयाचलं जलनिधेः पारं परं नायय— न्नण्डं दृप्‍तनृसिंह सिंहलपतेरूच्छेत्तुमच्छं यशः॥ ८९॥

इति।

अत्र दण्डशब्देन दण्डनाप्रहितो लोक उच्यते।

६. प्रस्थं खलु क्रोश इत्यादौ परिमाणसाधनभूतार्थान्तरपरतीतिहेतुः परिमाणलक्षणा। यथा—

यस्मादनर्घाणि हृतान्यनूनैः प्रस्थैर्मुहुर्भूरिभिरूच्छिखानि।

आढ्यादिव प्रापणिकादजस्त्रं जग्राह रत्‍नान्यमितानि लोकः॥ ९०॥

अत्र प्रस्थशब्देन प्रस्थपरिमाणसाधनं मानभाण्डं काष्‍ठादिमयमुच्यते।

Showing 351 to 360 of 1087 verses