२. छत्रिणो गच्छन्ति', 'कुन्तान् प्रवेशय' इत्यादिषु स्वार्थाविनाभूतसाहचर्योप— लब्धार्थान्तरप्रतीतिहेतुः साहचर्यलक्षणा। यथा— (कुसं. १.२)
यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे।
भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम्॥
अत्र दोग्धृसाहचर्याच्छैलेष्वपि दुदुहुरिति प्रयुज्यते। यथा वा—
पदेपदे कूबरिणः शतंशतं शतंशतं मत्तगजान् रथेरथे।
न्यवेशयद् वाजिशतं गजेगजे हयेहये कुन्तशतं शतक्रतुः॥ ८६॥
३. यत्रोक्तधर्मसहचरितोऽपि धर्मो लक्ष्यते सा सहचरितलक्षणा। यथा—
'मधुतृषत्पिङ्गाः पयोबिन्दवः'॥ ८७॥