भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 331 to 340 of 1087 verses
तयोर्यस्यामुपात्तशब्दस्यार्थस्य क्रियासिद्धौ साधनत्वायोगात् स्वार्थोऽविनाभूत— मर्थान्तरं व्यवहितमेव लक्षयति सा लक्षणा, तद्‍व्यतिरिक्ता तु वक्ष्यमाणानेकरूपा लक्षितलक्षणेति। तत्र—

(१. लक्षणा —६)

लक्षणा षोढा— सामीप्यलक्षणा, साहचर्यलक्षणा, सहचरितलक्षणा, हेतुलक्षणा, तादर्थ्यलक्षणा, परिमाणलक्षणा च। तत्र—

१. 'गङ्गायां घोषः प्रतिवसति', 'मञ्चाः क्रोशन्ति' इत्यादिषु स्वार्थाविनाभूतसमीपा— र्थान्तरप्रतीतिहेतुः सामीप्यलक्षणा। यथा—

'यत् तालीदलपाकपाण्डुवदनम्'॥ ८३॥

(विसा. २.१४)

'अभिनवकरिदन्तच्छेदकान्तः कपोलः'॥ ८४॥

इति। (मामा. १.२५)

अत्र पाकच्छेदयोः क्रियात्वेनामूर्तत्वात् पाण्डुत्वं कान्तत्वं चासम्भवत् समीपस्थं पक्‍वतालीपत्रं सद्यश्छिन्नं च हस्तिदन्तं लक्षयति।

'/?/

Showing 331 to 340 of 1087 verses