भिन्नानामभेदोपचारो यथोत्तरोदाहरणयोः तत्र हि प्रतीयमानाभिधीयमानतुल्य— गुणोपमानविशेषणमनेकं सर्वनाम उपमानव्यधानेनोपमेये प्रयुक्तमभेदोपचारेणो— त्कर्षमारोपयति।
नन्वियमन्योक्तिः समासोक्तिरूभयोक्तिर्वा कस्मान्न भवति ?
तथा हि— प्रतीयमानाभिधीयमानोपमेयगुणविभूतयः सर्वनामाध्यासेऽप्यन्योक्ति— समासोक्तयुभयोक्तयो दृश्यन्ते। तत्र —
हा सौरभं क्व तत् ते क्व नु ते सन्तापहारि हा शैत्यम्।
अङ्गारकारहस्ते चन्दन ! पतितोऽसि धिग् दैवम्॥ ७९॥
मुग्धामजातरजसं कलिकामकाले बालां कदर्थयसि किं नवमालिकायाः।
अन्यासु तावदुपमर्दसहासु भृङ्ग ! लोलं विनोदय मनः सुमनोलतासु॥ ८०॥