स सेतुं बन्धयामास प्लवगैर्लवणाम्बुधौ।
रसातलादिवोत्तोर्णं शेषं स्वप्नाय शार्ङ्गिणः॥ ५१॥
(शार्ङ्गिण इति) कर्तरि षष्ठी न सम्बन्धे, स्वप्नायेति भाव एव चतुर्थी न तादर्थ्ये। आख्यातेन कर्त्रभिधाने तद्धितेन कृतां च कर्माभिधाने सुपा कथिताकथितकर्माभिधाने च शाक्तो यथा— (माघ. २.३४)
विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्लभा।
अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते॥ ५२॥
१. मूलपाठोऽस्माकं कालिदासग्रन्थावल्या १९८६ वर्षीये संस्करणे द्रष्टव्यः।
सम्बन्धविभक्तया वैभक्तो यथा— (वारा. ६.८३, ३५)
यस्यार्थास्तस्प मित्राणि यस्यार्थास्तस्य बान्धवाः।