कारकविभक्तिभिः सम्बन्धोपपदशेषसम्बोधनविभक्तिभिश्च शक्तिविभक्तिमयो यथा—
तीर्थेषु सत्सु द्विजसत्तमेभ्यः श्रिय द्विषद्दुष्टजनानुपात्ताम्।
समाधिना मानमनित्य/निद्रमेव कस्य प्रदातुं त्वदृतेऽस्ति शक्तिः॥ ५७॥
यत्र लुप्तास्वपि विभक्तिषु शक्तयोऽवभासन्ते विभक्तयश्च साक्षादुपलभ्यन्ते सोऽपि शक्तिविभक्तिमयः। यथा—
वित्रस्तशत्रुः स्पृहयालुलोकः प्रपन्नसामन्त उदूढसत्त्वः।
प्रतिष्ठितौदार्यगुणोऽसिपत्रजितावनिः कोऽत्र भवानिवान्यः॥ ५८॥
यत्रैकतः शक्तिरन्यतो विभक्तिस्सोऽपि शक्तिविभक्तिमयो यथा—
इक्षुदण्डस्य मण्डस्य दध्न पिष्टकृतस्य च।
वाराहस्य च मांसस्य सैष गच्छति फाल्गुनः॥ ५९॥