कथं पुनः प्रपचतीत्यादौ प्रादेरुभयविशेषणत्वे क्रियाभागेनैव सम्बन्धो भवति ? सति वा कथमुभयविशेषणत्वम् ?
उच्यते— यथा मासो जातस्येति मासाख्यः क्रियाकलापः (कथं) प्रथमकुक्षिवियोगाख्यस्य जन्मनोऽवधिभावेन परिच्छेदको भवति, जन्मप्रतिलब्धां वा सत्तां समावृत्त्या परिमिमीते, यथा च कष्टश्रित इत्यत्रोपात्तक्रियाविशेषपरिच्छिन्नः कर्ताऽभ्यन्तरीकृतसाध्यसाधनसम्बन्धः क्रियायोगे श्रयतिक्रियासम्बन्धात् कष्टे कर्मत्वमिति श्रयणक्रिया कष्टेन सम्बन्धमनुभवति, यथा च वृकाद् भीत इत्युपात्तक्रियावच्छिन्नः कर्ता भयक्रियासम्बन्धाद् वृकस्यापादानत्वमिति भयक्रियापूर्वकं वृकेन सम्बध्यते, तथेहाप्युपात्तपच्यादिक्रियाविशेषपरिच्छिन्नः कर्ताऽभ्यन्तरीकृतसाध्य— साधनसम्बन्धः क्रियायोगे प्रादीनामुपसर्गत्वम् (मभा. १४.४९) इति क्रियापूर्वकं प्रादिभिः सम्बध्यत इति। सर्वेऽपि च समुदायसम्बन्धिनोऽवयवस्पर्शेनैव तद्वता समुदायेन सम्बध्यन्ते। तदुक्तम्—
समुदायेन सम्बन्धो येषां गुरुकुलादिना।
संस्पृश्यावयवाँस्ते तु युज्यन्ते तद्वता सह॥ ४८॥
व्यपेक्षादिभिरेकार्थपरतयोपात्तानां पदार्थानां मिथोऽभिग्रथनमन्वयः।
स त्रिधा— १. शाक्तः, २. वैभक्तः ३. शक्तिविभक्तिमयश्च। तेषु—
कर्मादिशक्तिभिर्निर्वृत्तः शाक्तः,
सम्बन्धादिविभक्तिभिर्वैभक्तः,