भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 291 to 300 of 746 verses
कथं पुनः प्रपचतीत्यादौ प्रादेरुभयविशेषणत्वे क्रियाभागेनैव सम्बन्धो भवति ? सति वा कथमुभयविशेषणत्वम् ?

उच्यते— यथा मासो जातस्येति मासाख्यः क्रियाकलापः (कथं) प्रथमकुक्षिवियोगाख्यस्य जन्मनोऽवधिभावेन परिच्छेदको भवति, जन्मप्रतिलब्धां वा सत्तां समावृत्त्या परिमिमीते, यथा च कष्टश्रित इत्यत्रोपात्तक्रियाविशेषपरिच्छिन्नः कर्ताऽभ्यन्तरीकृतसाध्यसाधनसम्बन्धः क्रियायोगे श्रयतिक्रियासम्बन्धात् कष्टे कर्मत्वमिति श्रयणक्रिया कष्टेन सम्बन्धमनुभवति, यथा च वृकाद् भीत इत्युपात्तक्रियावच्छिन्नः कर्ता भयक्रियासम्बन्धाद् वृकस्यापादानत्वमिति भयक्रियापूर्वकं वृकेन सम्बध्यते, तथेहाप्युपात्तपच्यादिक्रियाविशेषपरिच्छिन्नः कर्ताऽभ्यन्तरीकृतसाध्य— साधनसम्बन्धः क्रियायोगे प्रादीनामुपसर्गत्वम् (मभा. १४.४९) इति क्रियापूर्वकं प्रादिभिः सम्बध्यत इति। सर्वेऽपि च समुदायसम्बन्धिनोऽवयवस्पर्शेनैव तद्वता समुदायेन सम्बध्यन्ते। तदुक्तम्—

समुदायेन सम्बन्धो येषां गुरुकुलादिना।

संस्पृश्यावयवाँस्ते तु युज्यन्ते तद्‍वता सह॥ ४८॥

(वाप.३.४८ वृ.)

(७. अन्वयः)

व्यपेक्षादिभिरेकार्थपरतयोपात्तानां पदार्थानां मिथोऽभिग्रथनमन्वयः।

स त्रिधा— १. शाक्तः, २. वैभक्तः ३. शक्तिविभक्तिमयश्च। तेषु—

कर्मादिशक्तिभिर्निर्वृत्तः शाक्तः,

सम्बन्धादिविभक्तिभिर्वैभक्तः,

Showing 291 to 300 of 746 verses