भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 291 to 300 of 1676 verses
(३०. भेदः)

यत्र अभेदेनाप्युपात्तोऽर्थः शब्दो वा स्वरूपसामर्थ्यादिभिरनेकत्वमापद्यते स भेदः।

तत्र अर्थभेदो यथा— ब्राह्मणेभ्यः पाद्यमाचमनीयं भोजनं च दीयतामित्यभेदेनापि श्रुतानि पाद्याचमनभोजनानि स्वरूपसामर्थ्याद् भेदेन व्यवतिष्ठन्ते। यथा 'पितॄणां राजतं पात्रं देवानां तु हिरण्मयम्' इत्यभेदेनापि उपादाने भिन्नान्येव पात्राणि ब्राह्मणानां सहभुजां भुजिक्रियायामधिकरणभावं प्रतिपद्यन्ते। गृहस्थान् पत्‍न्य आर्यावर्ते सम्भोगसम्पादनाय भेदेनैवोपासत इति। अथ कविप्रयोगेषु क्रियाभेदे यथा—

लवङ्गमालाकलितावतंसास्ते नालिकेरान्तरपः पिबन्तः।

आस्वादितार्द्रक्रमुकाः समुद्रादभ्यागतस्य प्रतिपत्तिमापुः॥ ६६॥

(माघ.३.८१)

कारकभेदो यथा—(माघ. १०.३९)

स्पर्शभाजि विशदच्छविचारौ कल्पिते मृगदृशां सुरताय।

सन्नतिं दधति पेतुरजस्त्रं दृष्टयः प्रियतमे शयने च॥ ६७॥

अथ शब्दभेदः। स द्विधा— वाक्यभेदः पदभेदश्च।

Showing 291 to 300 of 1676 verses