भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 271 to 280 of 1676 verses
स्वागतं स्वानधीकारान् प्रभावैरवलम्ब्य वः।

युगपद् युगबाहुभ्यः प्राप्‍तेभ्यः प्राज्यविक्रमाः॥ ६१॥

इत्यादि प्रकरणं भगवता चतुर्मुखेन चतुर्भिरपि मुखैर्युगपदुच्चारितं चतसृष्वपि दिक्ष्ववस्थितैरिन्द्रादिभिः सम्बध्यमानं चरितार्थतामापादयति।

(२८. प्रसङ्गः)

यत्र सम्भविना कार्येण द्वयोरर्थिनोः प्रयोजकत्वेन निर्ज्ञातसामर्थ्य— योरन्यतरप्रयुक्तेनाप्यपरोऽपि सम्बध्यमानः कृतार्थत्वात् पृथक्प्रयोजकतां न प्रतिपद्यते तत्प्रासङ्गिकम्। तद्यथा अयमुपाध्यायोऽस्माभिरात्माध्यापनार्थमानीतः, त्वमप्यत्रैवाधीष्व; एतेन धनवन्तः कान्तारेषु गृहीतानुयात्रिकाः प्रतिष्ठन्ते, तदेतैरेव कृतरक्षासंविधानो गच्छ; अयं चतुष्पथे केनचिद् बलिप्रदीप उपहृतः, एतदुद्द्योतेनैव सन्तमसे रथ्यामतिक्राम; अयं देवतार्थः प्रदीपः, अनेनैव व्याख्यानं चिन्तय; तथा 'वत्स मकरन्द अनेनैव मालतीनैपथ्येनापवारितः प्रवर्तस्व परिणयायात्मानमात्मनः' इति। एवम् 'आम्राश्च सिक्ताः पितरश्च प्रीणिता' इति यच्चान्यदाचक्षाणोऽन्यदप्याचष्टे तदपि प्रासङ्गिकम्। तद्यथा कुमारसम्भवे कामसंस्थानं कथयन् धनुश्शिक्षामुपदिशति—

स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम्।

ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम्॥

(कुसं.३.७०)

एवं भट्टिकाव्ये रामकथां वर्णयन् शब्दानुशासनमुदाहरति— (भका. ११.१८)

भ्रेमुर्ववल्गुर्ननृतुर्जगर्जुर्जगुः समुत्पुप्लुविरे निषेदुः।

Showing 271 to 280 of 1676 verses