स्वागतं स्वानधीकारान् प्रभावैरवलम्ब्य वः।
युगपद् युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः॥ ६१॥
इत्यादि प्रकरणं भगवता चतुर्मुखेन चतुर्भिरपि मुखैर्युगपदुच्चारितं चतसृष्वपि दिक्ष्ववस्थितैरिन्द्रादिभिः सम्बध्यमानं चरितार्थतामापादयति।
यत्र सम्भविना कार्येण द्वयोरर्थिनोः प्रयोजकत्वेन निर्ज्ञातसामर्थ्य— योरन्यतरप्रयुक्तेनाप्यपरोऽपि सम्बध्यमानः कृतार्थत्वात् पृथक्प्रयोजकतां न प्रतिपद्यते तत्प्रासङ्गिकम्। तद्यथा अयमुपाध्यायोऽस्माभिरात्माध्यापनार्थमानीतः, त्वमप्यत्रैवाधीष्व; एतेन धनवन्तः कान्तारेषु गृहीतानुयात्रिकाः प्रतिष्ठन्ते, तदेतैरेव कृतरक्षासंविधानो गच्छ; अयं चतुष्पथे केनचिद् बलिप्रदीप उपहृतः, एतदुद्द्योतेनैव सन्तमसे रथ्यामतिक्राम; अयं देवतार्थः प्रदीपः, अनेनैव व्याख्यानं चिन्तय; तथा 'वत्स मकरन्द अनेनैव मालतीनैपथ्येनापवारितः प्रवर्तस्व परिणयायात्मानमात्मनः' इति। एवम् 'आम्राश्च सिक्ताः पितरश्च प्रीणिता' इति यच्चान्यदाचक्षाणोऽन्यदप्याचष्टे तदपि प्रासङ्गिकम्। तद्यथा कुमारसम्भवे कामसंस्थानं कथयन् धनुश्शिक्षामुपदिशति—
स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम्।
ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम्॥
एवं भट्टिकाव्ये रामकथां वर्णयन् शब्दानुशासनमुदाहरति— (भका. ११.१८)
भ्रेमुर्ववल्गुर्ननृतुर्जगर्जुर्जगुः समुत्पुप्लुविरे निषेदुः।